वाचस्पत्यम्
लावण्य || न० लबणस्य भावः ष्यञ् । लवणत्वे “मुक्ताफलेष छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लाव- ण्यमिहोच्यते” उज्ज्वलम स्युक्ते देहसौन्दर्य्यभेदे च ।
शब्दकल्पद्रुमः
लावण्यं || क्ली (लवण + ष्यञ् ।)
लवणत्वम् । लवणस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् । (लवणा त्विट् विद्यते यस्येति लवणः । अर्श- आदिभ्योऽच् । तस्य भावः । दृढादित्वात् ष्यञ् । यद्बा, लवणा त्विट् सैव । चतुर्वर्णादि- त्वात् स्वार्थे ष्यञ् ।)
सौन्दर्य्यविशेषः । तस्य लक्षणं यथा, —
“मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ तथा हि । “नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गनानां धृति- र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् । लावण्यं वपुषः स्मृतिस्तु मनसा शान्तिर्द्विजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम् ॥” इति नवरत्नान्तर्गतामरसिंहः ॥ (शीलनैपुण्यादि । अस्य प्रमाणं लावण्यार्जित- शब्दे द्रष्टव्यम् ॥)