संस्कृत-शब्दकोशः

लावण्य लावा

लावण्यार्जित

शब्दकल्पद्रुमः

लावण्यार्जितं || क्ली (लावण्येन अर्जितम् ।)
विवाह- कालीनं श्वशुराभ्यां दत्तं धनम् । यथा, —
“प्रीत्या दत्तञ्च यत्किञ्चित् श्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकं यत्तल्लावण्यार्जितमुच्यते ॥” इति विवादचिन्तामणिधृतकात्यायनवचनम् ॥ लावण्यं शीलनैपुण्यादि । तथा च पादप्रणतायै शीलादिमत्यै वा स्त्रियै श्वशुरादिना दत्तं तृतीयं स्त्रीधनमित्यर्थः । इति तद्व्याख्यानम् ॥



Correction: