वाचस्पत्यम्
लिकुच || पु० लकुच—पृषो० इत्त्वम् । (माँदार) वृक्षे अमरः ।
शब्दकल्पद्रुमः
लिकुचं || क्ली (लक्यते आस्वोद्यते इति । लक् + बाहुलकात् उचः । पृषोदरादित्वात् इत्वम् ।)
चुक्रम् । इति राजनिर्घण्टः ॥ (डहुः । अस्य गुणा यथा, —
“पित्तश्लेष्मप्रकोपीणि कर्कन्धुलिकुचान्यपि ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)
शब्दकल्पद्रुमः
लिकुचः || पुं, लकुचः । इत्यमरः ॥