संस्कृत-शब्दकोशः

लिखन लिख्या

लिखित

वाचस्पत्यम्

लिखित ||‍ न० लिख—भावे क्त । १ लेखने । आधारे क्त । २ लिपौ अमरः । विवादे अर्थसाधके ३ पत्रे च “प्रमाणं लिखितं भक्तिः” स्मृतिः । लेख्यशब्दे दृश्यम् । ४ स्मृतिकारके शङ्खमुनिभ्रातरि मुनिभेदे पु० ।


शब्दकल्पद्रुमः

लिखितं || क्ली (लिख + भावे क्तः ।)
लिपिः । इत्यमरः ॥ लेखनम् । इति भरतः ॥ (लिख + कर्म्मणि क्तः ।)
लिखितपत्रादौ, त्रि । यथा, —
“प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम् ॥” इति मिताक्षरायां याज्ञवल्क्यः ॥ मुनिविशेषे, पुं । यथा, श्राद्धतत्त्वे याज्ञवल्क्येः ॥ “पराशरव्यासशङ्खलिखिता दक्षगोतमौ । शातांतपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”



Correction: