शब्दकल्पद्रुमः
लिख्या || स्त्री परिमाणविशेषः । यथा, — “जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः ॥” इति शब्दचन्द्रिका ॥