संस्कृत-शब्दकोशः

लिख्या लिगु

लिग

वाचस्पत्यम्

लिग ||‍ गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्गति अलिङ्गीत् ।


वाचस्पत्यम्

लिग ||‍ चित्रीकरणे चुरा० उभ० सक० सेट् इदित् । लिङ्गयति ते अलिलिङ्गत् त ।


शब्दकल्पद्रुमः

लिग || इ क चित्रे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
इ क, लिङ्गयति शब्दं स्त्रीनपुंसकैः शाब्दिकः चित्रं करोतीत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लिग || इ गतौ । इति कविकल्कद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
इ, लिङ्ग्यते । इति दुर्गादासः ॥



Correction: