संस्कृत-शब्दकोशः

लिगु लिङ्गक

लिङ्ग

वाचस्पत्यम्

लिङ्ग ||‍ पु० लिगि—अच् । १ चिह्ने २ पुसोऽसाधारणचिह्ने उपस्थेन्द्रिये अमरः । ३ अनुमानसाधने हेतौ ४ सांख्यो- क्ते प्रधाने तस्यात्मविवेकहेतुत्वात् तथात्वम् । ५ शिवमूर्त्ति- भेदे मेदि० ६ व्याप्ये ७ व्यक्ते शब्दानष्ठे पदसाधुताप्रयो- जके ८ धर्मभेदे त्रिका० ९ अर्थप्रकाशनसामर्थ्ये च । “क्षमता च लिङ्गमिति” मीसांसकाः । ||‍शब्दधर्भलिङ्गं चास्माभिः शबदार्थरत्ने निरूपितं यथा “लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मको धर्म एव तद्विशेषश्च पुंनपुंसकत्वादिः । तथा हि सर्वेषां त्रिगुणप्रकृतिका- र्य्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छस्देषु लिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थ- मभ्यधायि । “विकृतसत्त्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं सत्त्वस्याधिक्ये पुंस्त्वम् अल्पत्वे(रज आधिक्ये) स्त्री त्वमिति” । एवञ्च लिप्तस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात् असति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दबोधे शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्ग- स्यापि नांमार्थतौचित्यात् “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते” इति हर्य्युक्तेः “शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नो चेत् श्रोत्रादिभिः सिद्धो- ऽप्यसावर्थेऽवभासते” हर्य्युक्तेश्च शब्दानां नामार्थ- तावगतेः । तथा प्रातिपदिकार्थाभेदविवक्षायां तु श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे प्रकारतया भा- सते इति तदर्थः । युक्तञ्चैतत् पुंलिङ्गः शब्द इति व्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे शब्दस्यैव नपुं- सकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्र- निर्देशासङ्गत्यापत्तेश्च । तथा अर्थभेदाच्छब्दभेदवत् लि- ङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तवर्मविशेषरूप- भेदकसद्भावात् । उक्तञ्च भाष्ये “एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वमिति” । एवञ्च तटादिशब्दानामनेक- लिङ्गत्वव्यहारः समानानुपूर्वीकत्वेनैव वस्तुतस्तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति दिक्” । ||‍अर्थप्रकाशनसामर्थ्यरूपलिङ्गन्तु द्वितीयादिश्रवणे तत्तन्मन्त्रपकाश्यार्थे विनियोगसाधकं यथा “बर्हिर्देवसदनं दानीति अत्र दानीति पदस्य दा लवने इत्यस्माद्धातो सिद्धस्य च्छेदनप्रकाशनसामर्थ्यात् वर्हिरित्यस्य चास्तृत- दर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने समुदायमन्त्रस्य वि- नियोगोऽवगम्यते” तत्त्वबोध० । प्रत्यक्षद्वितीयाश्रवणे तु लैङ्गिकविनियोगस्त्यज्यते “श्रुतिलिङ्गवाक्यप्रकरणस्थानस- माख्याना समवाये पारदौर्बल्यमर्थविप्रकर्षात्” जै० सू० । यथा “ऐन्द्र्या गार्हपत्यमुप्रतिष्ठते” श्रुतिः ऐन्द्री च ऋक् “कदाचन स्तरोरसि नेन्द्र! दासुषे” अस्य मन्त्रस्य इन्द्र- प्रकाशनसामर्थ्यम् तदेतत् निरूपितं तत्त्वबोधन्याम् “तथा हि गार्हपत्यमिति द्वितीयारूपप्रत्यक्षश्रुत्या गार्ह- पत्याग्निगतं क्रियाजन्यप्रीतिफलाश्रययत्वरूपं कर्मत्वं साक्षाद्बोधितं तथा च तस्य देवतात्वं श्रुतिप्राप्तं क्रि- याजन्यप्रीतिभागित्वेनोद्देश्यस्यैव देवतात्वादिति गार्ह- पत्याग्नेरुपस्थानस्य शेषितावगम्यते ऐन्द्र्येति तृतीयया ऋचः करणत्वबोधनादुपस्थानशेषत्वमवगम्यते मन्त्रलिङ्गे- नेन्द्रस्यापि शेषत्वमित्युभयोरुपस्थानं देवतात्वञ्चावगम्यते । तथा च विरोधः न ह्यन्यप्रकाशकमन्त्रेणान्योपस्थानं विहितमिति तत्परीहाराय मन्त्रस्थेन्द्रपदे विधिवाक्य- स्थगार्हपत्यपदे वा एकत्र लक्षणावश्यकी । तत्र गार्हपत्य पदस्य इन्द्रे न लक्षणा गार्ह्यपत्यदेवतात्वस्य लिङ्गानिर- पेक्षश्रुतिप्राप्तत्वात् इन्द्रदेवतात्वन्तु लिङ्गेन विलम्बबोध्यम् । तथा हि इन्द्रप्रकाशनसामर्थ्यान्यथानुपत्त्या इन्द्रमुपति- ष्ठते इति कल्प्यते इति इन्द्रस्य देवतात्वं विलम्बगम्यमिति शीघ्रबोधकत्वेन श्रुतिरेव वलयसीति लिङ्गं दुर्बलम् । अतएव न समुच्चयः न वा इन्द्रस्यैवेति नियमः लिङ्गः दुर्बलत्वेन इन्द्रोपस्थानस्याप्राप्तत्वात् । एवञ्च श्रुतितोऽग्ने रुपस्थाने सिद्धे कथमित्याकाङ्क्षायामैन्द्र्येति । ततश्च मन्त्रस्येन्द्रप्रकाशकत्वात् तेनाग्नेरुपस्थानानुपपत्तेः न ह्यन्योपस्थापकमन्त्रेणान्यस्योपस्थानं युक्तमित्यनुपपत्त्या- मन्त्रस्थेन्द्रपदस्य इदि परमैश्वर्य्य इति धात्वनुसारादैश्वर्य्य- गुणयोगादग्नौ लक्षणा” “यावदेव हि मन्त्रार्थो मन्त्रेण प्रतिपाद्यते । मन्त्रार्थं मन्त्रतो बुद्ध्वा पञ्चाच्छक्तिर्निरूप्यते । मन्त्राकाङ्क्षावशेऽन्येन्द्रशेषत्वश्रुतिकल्पना । श्रुत्या प्रत्यक्षया पूर्वं नार्हपत्यार्थतां तते । लिङ्गस्य हि प्रमाणत्वं मन्त्राका- ङ्क्षानिबन्धनम् । ताञ्च श्रुतिर्विरुध्यन्ती ह्यविरोधेन गच्छति । विरोधे च श्रुतिर्लिङ्गं बलीयस्त्वेन बाधते” । लियं लयं गच्छति पृषो० । १० सांख्योक्ते महत्तत्त्वे देह शब्दे ३७५४ पृ० दृश्यम् । ११ सप्तदशाबयवे लिङ्गदेहे । ||‍“सप्तदशैकं लिङ्गम्” सा० सू० “सूक्ष्मशरीरमप्या- धाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश । अहङ्कारस्य बुद्धावेवान्तर्भावः । चतुर्थसूत्रवक्ष्यमाणप्रमा- णादेतान्येव सप्तदशलिङ्गं मन्तव्यम् । न तु सप्तदश एकं चेत्यष्टादशतया व्याख्येयम् उत्तरसूत्रेण व्यक्तिभेदस्यो- पपाद्यतयात्र लिङ्गैकत्वे एकशब्दस्य तात्पर्य्यावधारणाच्च । “कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः स युज्यते । ससप्तदश कनापि राशिना युज्यते च सः” इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च सप्तदंशावयवा अत्र स- न्तीति सप्तदशको राशिरित्यथः । राशिशब्देन स्थूल देहस्यावयवित्वं निराकृतम् अवयविरूपेण द्रव्यान्तर- कल्पवायां गौरवात् । स्थूलदेहस्य चावयवित्वमेक तादिप्रत्यक्षानुरोधेन कल्प्यत इति । अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः । प्राणश्चान्तःकरणस्यैव वृत्तिभेदः । अतो लिङ्गदेहे प्राण- पञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयं वक्ष्यति “लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य्यः” इति सूत्रेण । अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम् । तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्व्यक्तीभवि- व्यति । चेष्टेन्द्रियार्थाश्रयः शरीरमिति तु न्यायेऽपि तस्यैव लक्षणं कृतमिति” भा० । “तदधिष्ठानाश्रये देहे तद्- वादाद् तद्वादः” सा० सू० । “तस्य लिङ्गस्य तदधि- ष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्नये षाट्कौशिक- देहे तद्वादो देहवादस्तद्वादाद् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वमधि- ष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्य्यवसितोऽर्थः” । अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम्” “वासना भूतसूक्ष्मं च कर्मविद्ये तथैव च । दशेन्द्रियं मनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः” इति वाशिष्ठादिवाक्येभ्यः । अत्र लिङ्गशरीरप्रतिपादन- गैव पुर्य्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपि वासनाकर्मविद्यानां पृथगुपन्यासः । भूतसूक्ष्मं चात्र तन्मात्रा, दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन पुरद्वय- मित्याशयः । यत् तु मायावादिनो लिङ्गशरीरे त- न्मात्मस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्य्यष्टकं चान्यथा कल्पयन्ति तदप्रामाणिकमिति” भा० । वेदान्तिनये “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृत- भूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” इत्युक्तं सप्तदशावयवं लिङ्गशरीरमिति भेदः ।


शब्दकल्पद्रुमः

लिङ्गं || क्ली (लिङ्ग्यते अनेन इति । लिङ्ग + घञ् । अभिधानात् क्लीवलिङ्गत्वम् ।)
चिह्रम् । (यथा, महाभारते । १ । २ । १२ । “येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥”)
शेफः । इत्यमरः ॥ अनुमानम् । साङ्ख्योक्त- प्रकृतिः । (यथा, सांख्यकारिकायाम् । ५५ । “तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं स्वभावेन ॥” प्रकृतिकार्य्यं विकृतिश्च । यथा, तत्रैव । १० । “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयबं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥” विशेषस्तु तत्र द्रष्टव्यः ।)
शिवमूर्त्तिविशेषः । इति मेदिनी । गे, २३ ॥ व्याप्यम् । व्यक्तम् । पुंस्त्वादिः । इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ५ । १३६ । “एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥”)
सामर्थ्यम् । यथा, —
“यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् । अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः ॥” इति तिथ्यादितत्त्वे एतत्कारिकाव्याख्यायां रघु- नन्दनः ॥ * ॥
अथ शेफार्थस्य लिङ्गस्य पर्य्यायः । शिश्नः २ स्वरस्तम्भः ३ उपस्थः ४ मदनाङ्कुशः ५ कन्दर्पमुषलः ६ शेफः ७ मेहनम् ८ शेफः [स्] ९ मेढ्रः १० लांगुः ११ ध्वजः ११ रागलता १३ व्यङ्गः १४ । इति शब्दरत्नावली ॥ लाङ्गूलम् १५ साधनम् १६ सेफः १७ कामाङ्कुशः १८ । इति जटाधरः ॥ * ॥
लिङ्गमूले वादिलान्तवर्णयुक्त- स्वाधिष्ठाननामकषड् दलपद्ममस्ति । यथा, —
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके । मध्ये स्वयम्भूलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥ तद्वाद्ये हेमवर्णाभं व स वर्णचतुर्दलम् । तदूर्द्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ॥ वादिलान्तषड्र्णेन युक्तञ्चाधिष्ठानसंज्ञकम् । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥” इति तन्त्रम् ॥ * ॥
अस्याधिष्ठातृदेवतादिर्यथा । “प्रजनः सर्व्वभूतानामुपस्थोऽध्यात्ममुच्यते । अधिभूतं तथा शुक्रं दैवतञ्च प्रजापतिः ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥
अस्य शुभाशुभलक्षणं यथा, —
“स्वल्पे लिङ्गे च धनवान् स्याच्च पुत्त्रादि- वर्ज्जितः । स्थूललिङ्गो दरिद्रः स्याद्दःख्येकवृषणी भवेत् ॥” इति गारुडे ६३ अध्यायः ॥ * ॥
अपि च । “महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः । अपत्यरहितश्चैव स्थूललिङ्गो धनोज्झितः ॥” महद्भिर्जानुभिरिति शेषः । “मेढ्रे वामनते चैव सुतान्नरहितो भवेत् । वक्रेऽन्यथापुत्त्रवान् स्यात् दारिद्र्यं विनते त्वधः ॥ अल्पे तु तनयो लिङ्गे शिरालेऽथ सुखी नरः । स्थूलग्रन्थियुते लिङ्गे भवेत् पुत्त्रादिसंयुतः ॥” इति गारुडे ६६ अध्यायः ॥ अन्यच्च । “दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन निर्द्धनः । कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥ कर्कशैः कठिनैर्लिङ्गैः परदाररतः सदा । रमते च सदा दासीं निर्द्धनो भवति ध्रुवम् ॥ कृशलिङ्गेन सूक्ष्मेण रक्तलिङ्गेन भूपतिः । परस्त्रीं रमते नित्यं नारीणां वल्लभो भवेत् ॥ कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् । राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पति- र्भवेत् ॥” इति सामुद्रकम् ॥ शिवस्य लिङ्गरूपस्य तन्निर्माल्याग्राह्यत्वस्य च कारणं यथा, — दिलीप उवाच । “वेद्मि स्माहं द्विजश्रेष्ठ ! रुद्रस्त्रिपुरहन्तकः । कस्माद्विगर्हितं रूपं प्राप्तवान् सह भार्य्यया ॥ योनिलिङ्गस्वरूपञ्च कथं स्यात् सुमहात्मनः । पञ्चवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ॥ कथं विगर्हितं रूपं प्राप्तवान् द्विजपुङ्गव ! । एवं सर्व्वं समाचक्ष्व मित्रावरुणनन्दन ॥ श्रीवशिष्ठ उवाच । शृणु राजन् प्रवक्ष्यामि यन्मां पृच्छसि गौरवात् । स्वायम्भुवो मनुः पूर्व्वं मन्दरे पर्व्वतोत्तमे ॥ इयाज मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् । तस्मिन् समागताः सर्व्वे मुनयः शंसितव्रताः ॥ अन्वेष्टुं देवतातत्त्वं मिथः प्रोचुस्तपोधनाः । विप्राणावेदविदुषां कः पूज्यो देवतावरः ॥ इति तस्य वचः श्रुत्वा सर्व्व एव महर्ययः । भृगुं तपोनिधिं विप्रं प्रोचुः प्राञ्जलयस्तदा ॥ ऋषय ऊचुः । अस्माकं संशयं छेत्तुं समर्थोऽसि शुभव्रत । ब्रह्मविष्णुमहेशानामन्तिकं व्रज सुव्रत ॥ गत्वा तेषां समीपन्तु तथा दृष्ट्वा च विग्रहान् । शुद्धसत्त्वगुणस्तेषां यस्मिन् संविद्यते मुने ! ॥ स एव पूज्यो विप्राणां नेतरस्तु कदाचन । तस्मात् त्वं हि मुनिश्रेष्ठ विबुधानां निरासनम् ॥ क्षिप्रं कुरु मुनिश्रेष्ठ सर्व्वलोकहितं प्रभो ॥ एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः । जगाम बामदेवेन यत्रास्ते वृषभध्वजः ॥ गृहद्वारमुपागम्य शङ्करस्य महात्मनः । शूलहस्तं महारौद्रं नन्दिं दृष्ट्वाब्रवीद्द्विजः ॥ संप्राप्तो हि भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम् । निवेदयस्व मां शीघ्रं शङ्कराय महात्मने ॥ तस्य तद्वचनं श्रुत्वा नन्दी सर्व्वगणेश्वरः । उवाच परुषं वाक्यं महर्षिममितौजसम् ॥ असान्निध्यः प्रभोस्तस्य देव्या क्रीडति शङ्करः । निवर्त्तस्व निवर्त्तस्व यदि जीवितुमिच्छसि ॥ एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः । बहूनि दिवसान्यस्मिन् गृहद्वारे मुनीश्वरः ॥ ततः क्रोधसमाविष्टो भृगुः प्रोवाच शङ्करम् । विनष्टस्तमसारूढो मां न जानाति शङ्करः ॥ नारीसङ्गममत्तोऽसौ यस्मान्मामवमन्यते । योनिलिङ्गस्वरूपं वै रूपं तस्माद्भविष्यति ॥ ब्राह्मणं मां न जानाति तमसा चाप्युपागतः । अब्रह्मण्यत्वमापन्नो न पूज्योऽसौ द्बिजन्मनाम् ॥ तस्मान्न जलमन्नन्तु तस्मै दत्तं हविस्तथा । शिवस्यान्नं जलञ्चैव पत्रं पुष्पं फलादिकम् ॥ निर्म्माल्यमस्य चाग्राह्यं भविष्यति न संशयः ॥ एवं शप्त्वा महातेजाः शङ्करं लोकपूजितम् । उवाच गणमत्युग्रं नन्दिं शूलधरं नृप ! ॥ रुद्रभक्ताश्च ये लोके भस्मलिङ्गास्थिधारिणः । ते पाषण्डत्वमापन्ना वेदवाह्या भवन्ति वै ॥ एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्तकम् । जगाम ब्रह्मलोकं वै सर्व्वलोकनमस्कृतम् ॥” इति पाद्मोत्तरखण्डीयाष्ठसप्ततितमाध्यायात् सङ्कलितम् ॥ * ॥
शिवलिङ्गस्य पूजाधारत्वं यथा, “पूजास्थानानि वक्ष्यामि यस्मिन् सान्निध्यतां व्रजेत् । लिङ्गस्थां पूजयेद्देवीं स्थण्डिलस्थां तथैव च । पुस्तकस्थां महादेवीं पादुके प्रतिमासु च ॥ तल्लिङ्गमाश्रयेन्मन्त्री शुक्राद्यैर्यत् प्रतिष्ठितम् । कचाद्यैर्यत् कृतं लिङ्गं वर्ज्जनीयन्तु साधकैः ॥ अल्पसौख्यप्रदं प्रोक्तं वेदमन्त्रैः प्रतिष्ठितम् । साविकारन्तु सल्लिर्ङ्ग भुक्तभोगं तथेव च । ज्ञातव्यं साधकेन्द्रेण सिद्धिदञ्चाप्यसिद्धिदम् ॥ देव्युवाच । साविकारन्तु यल्लिङ्गं मन्त्रहीनं प्रतिष्ठितम् । निर्वर्त्तितविकारञ्च अस्वयम्भु स्वयम्भवम् ॥ कुर्व्वन्ति भक्तिवात्सल्यं लोकानां वासनात्मकम् । दुर्विज्ञेयमिदं ज्ञानं योगिनामप्यगोचरम् ॥ मर्त्यैर्जडधियैर्नाथ कथं विज्ञायते विभो ॥ ईश्वर उवाच । साधु साधु महादेवि ! रहस्यमिदमुत्तमम् । यत्त्वया चोदितं भद्रे ! तत्तथैव न चान्यथा ॥ दुर्विज्ञेयं सुरैश्चापि किं पुनर्मनुजन्तुभिः । आधिष्ठ्य साधकः क्षेत्रं हृदयानन्दकारकम् ॥ इन्द्रियाणाञ्च औत्सुक्यं ददामि लिङ्गदर्शने । सेव्यमानं ततो लिङ्गं नित्यमानन्ददायकम् ॥ सुस्वप्नान् पश्यते नित्यं विमानस्थां वराङ्गनाम् । भैरवं पश्यते नित्यं क्रीडन्तं मातृमण्डले ॥ उमामहेश्वरञ्चापि स्वप्ने पश्यति साधकः । अनिवर्त्तिताधिकारं लिङ्गं त्रिभुवनेश्वरि ! । आक्रमन्ति महाविघ्नाः सदैत्या राक्षसादयः ॥ शून्यागारं यथा देवि ! आक्रमन्ति नराः प्रिये । अनर्च्चितन्तु भुञ्जन्ति तथा लिङ्गन्तु कल्पना ॥ प्रेतं यथा सुराध्यक्षे आक्रमन्ति पिशाचकाः । शून्यञ्च व्यङ्गलिङ्गन्तु आश्रयन्ति तथा प्रिये ॥” इत्याद्ये देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ * ॥
अथ लिङ्गलक्षणम् । तत्र बाणलिङ्गस्य लक्षणं यथा, —
“बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् । उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु ॥ नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा । सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि यन्मुखे ॥ इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च । सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥ इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च ॥” अथाग्नेयलिङ्गलक्षणम् । “आरुणं हित्यकीलालमुष्णस्पर्शं-करोत्यलम् । आग्नेयं तत् शक्तिनिभमथवा शक्तिलाञ्छितम् ॥ इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् ॥” * ॥
अथ याम्यलिङ्गलक्षणम् । “दण्डाकारं भवेद्याम्यमथवा रसनाकृति । यद्यदुक्तं सह तेर्न निर्निक्तं ज्ञायते तदा । निषिक्तं निधनं तेन क्रियते स्थापितेन तु ॥” * ॥
अथ नैऋतलिङ्गलक्षणम् । “राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् । कर्करादिप्रलिप्तन्तु कुण्ठकुक्षियुतं तथा । राक्षसं निष्कृते लिङ्गं गार्हस्थे न सुखप्रदम् ॥” अथ वारुणलिङ्गलक्षणम् । “वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् । वृद्धिर्मुखादेः र्ह्रस्वत्वं संभोगाप्तन्तु मध्यगे ॥” अथ वायुलिङ्गलक्षणम् । “कृष्णं धूम्रं न वारुच्यं ध्वजाभं ध्वजमूषलम् । मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः ॥” * ॥
अथ कुबेरलिङ्गलक्षणम् । “तूणपाशगदाकारं गुह्यकेशस्य मध्यगम् ।” अथ रौद्रलिङ्गलक्षणम् । “दिनं वाप्यथवा रात्रिं सशोणं रविवर्च्चसम् । अस्थिशूलाङ्कितं रौद्रं हेमकुण्डलवर्च्चसम् ॥” अथ वैष्णवलिङ्गलक्षणम् । “चतुर्व्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः । वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम् ॥ श्रीवत्सं कौस्तुभाङ्कञ्च सर्व्वसिंहासनाङ्कितम् । वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम् ॥ वैष्णवं नाम तत् प्रोक्तं सर्व्वैश्वर्य्यफलप्रदम् । शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम् ॥ पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये ॥” इति वीरमित्रोदयधृतकालोत्तरः ॥ * ॥
नारद उवाच । “अथ वक्ष्यामि ते विप्र चिह्रमेकादशं परम् । श्रवणाद्यस्य पापानि नाशमायान्ति तत्- क्षणात् ॥ मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् । स्वयम्भुलिङ्गमाख्यातं सर्व्वसिद्धैर्निषेवितम् ॥ नानावर्णसमाकीण जटाशूलसमन्वितम् । मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम् ॥ दीर्घाकारं शुभ्रवर्णं कृष्णबिन्दुसमन्वितम् । बीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः ॥ शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् । त्रिलोचनं महादेवं सर्व्वपापप्रणोदनम् ॥ ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् । कालाग्निरुद्रमाख्यातं सर्व्वसत्त्वैर्निषेवितम् ॥ मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतिनम् । श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम् ॥ प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् । शुभ्राभं पिङ्गलजटं मुण्डमालाधरं परम् ॥ त्रिशैलधरमीशानं लिङ्गं सर्व्वार्थसाधनम् । त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः ॥ अर्द्धनारीश्वराह्वानं सर्व्वदेवैरभिष्टुतम् । ईषद्रक्तमयं कान्तं स्थूलं लिङ्गं समुज्ज्वलम् ॥ महाकालं समाख्यातं धर्म्मकामार्थमोक्षदम् । एतत्तु कथितं तुभ्यं लिङ्गचिह्रं महेशितुः । एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत ॥” इति हेमाद्रिधृतलक्षणकाण्डम् ॥ * ॥
“उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्ज्जयेत् । यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम् ॥ दण्डाङ्कं सूत्रचिह्रं वा ब्रह्मज्ञानान्वितं मतम् । शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ॥ पद्मरागनिभं सर्व्वं महाभं सिद्धपूजितम् । मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् ॥ वसुदैः सेन्द्रयक्षेशं गुह्यकैर्यातुधानकैः । नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम् ॥” इति वीरमित्रोदयधृतकालोत्तरः ॥ इति बाणलिङ्गलक्षणम् ॥ * ॥
अथ तस्य परीक्षा । “इत्येतल्लक्षणं प्रोक्तं परीक्षा तत्त्वकोविदैः । त्रिः सप्त पञ्च वारं वा तुलासाम्यं न जायते । तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥” इति वीरमित्रोदयधृतम् ॥ तुलाकरणन्तु तण्डुलेन । अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्यमव- धार्य्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यन्तदिति किं वदन्तीति हेमाद्रिधृतलक्षणकाण्डम् ॥ “सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते । बाणलिङ्गमिति ख्यातं शेषं नार्म्मदमुच्यते ॥ त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥” इति सूतसंहिता ॥ “नद्यां वा प्रक्षिपेद्भूयाद्यदा तदुपलभ्यते । बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् ॥” इति वीरमित्रोदयः ॥ * ॥
बाणशब्दव्युत्पत्तिरपि तत्रैव । “अथ बाणं समाख्यातं यथा वक्ष्य तथादितः । बाणः सदाशिवो देवो बाणो वाणान्तरोऽपि च ॥ तेन यस्मै कृतं तस्मात् बाणलिङ्गमुदाहृतम् । सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥ कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च । पङ्कजस्य फलाकारं कुण्डलस्य समाकृति ॥ भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम् ॥” पङ्कजफलं पद्मबीजम् । “पक्वजम्बुफलाकारं कुक्कुटाण्डसमाकृति ।” इति हेमाद्रिधृतलक्षणकाण्डे पाठः ॥ * ॥
देवीं प्रति शिववाक्यम् । “प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति । मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् ॥ हंसडिम्बाकृति पुनः स्थापनायां प्रशश्यते । स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले ॥ पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे । आविरासं गिरौ तत्र लिङ्गरूपी महेश्वरः । बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले ॥ अन्येषां कोटिलिङ्गानां पूजने यत् फलं लभेत् । तत् फलं लभते मर्त्यो बाणलिङ्गैकपूजनात् ॥” तथा, —
“ताम्री वा स्फाटिकी स्वार्णी पाषाणी राजती तथा । वेदिका च प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत् ॥” * ॥
प्रत्यहं योऽर्च्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः । ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता ॥” इति प्रत्यहबाणलिङ्गपूजायाः फलम् । इति याज्ञवल्क्यसंहिता ॥ * ॥
“संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् । रसलिङ्गे ततो बाणात् फलं कोटिगुणं स्मृतम् ॥ गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी । सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः ॥” इति सूतसंहिता ॥ * ॥
“रत्नधातुमयान्येव लिङ्गानि कथितान्यपि । पवित्राण्येव पूज्यानि सर्व्वकामप्रदानि च ॥ एतेषामपि सर्व्वेषां काश्मीरं हि विशिष्यते । काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते ॥ वाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते । ऐहिकामुष्मिकं सर्व्वं पूजाकर्त्तुः प्रयच्छति ॥” इति बाणलिङ्गप्रशंसा । इति केदारखण्डम् ॥ * ॥
निन्द्यलिङ्गमाह तत्रैव । “कर्कशे बाणलिङ्गे तु पुत्त्रदारक्षयो भवेत् । चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम् ॥ एकपार्श्वस्थिते धेनुपुत्त्रदारधनक्षयः । शिरसि स्फुटिते बाणे व्याधिर्म्मरणमेव च ॥ छिद्रलिङ्गेऽर्च्चिते बाणे विदेशगमनं भवेत् । लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् । अत्युन्नतिं विलाग्रे तु गोधनानां क्षयो भवेत् ॥ * तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत् । अतिस्थूलञ्चातिकृशं स्वल्पं वा भूषणान्वितम् । गृही विवर्ज्जयेत्तादृक् तद्धि मोक्षार्थिनो हितम् ॥” इति दुष्टबाणलिङ्गलक्षणम् । इति हेमाद्रिः ॥ * ॥
शुभलिङ्गमाह । “अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणः । लघु वा कपिलं स्थूलं गृही नैवार्च्चयेत् क्वचित् ॥ पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् । तत् सपीठमपीठं वा मन्त्रसंस्कारवर्जितम् । सिद्धिमुक्तिप्रदं लिङ्गं सर्व्वप्रासादपीठगम् ॥” इति शुभवाणलिङ्गलक्षणम् । इति वीरमित्रो- दयः ॥ * ॥
वाणलिङेष्वावाहनादि न कर्त्तव्यं यथा, —
“वाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये । न प्रतिष्ठा न संस्कारस्तेषामावाहनं न च ॥” इति भविष्यपुराणम् ॥ “ब्राह्म्ये मुहूर्त्ते चोत्थाय यः स्मरेद्वाणलिङ्गकम् । सर्व्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर ! ॥” इति योगसारे ५ परिच्छेदः ॥ * ॥
अथ बाणलिङ्गध्यानम् । “ॐ प्रमत्तं शक्तिसंयुक्तं बाणाख्यञ्च महा- प्रभम् । कामबांणान्वितं देवं संसारदहनक्षमम् ॥ शृङ्गारादिरसोल्लासं वाणाख्यं परमेश्वरम् । एवं ध्यात्वा बाणलिङ्गं यजेत्तं परमं शिवम् ॥ मनसा गन्धपुष्पाद्यैः संपूज्यास्य मनुं स्मरेत् । प्राणायामं ततः कृत्वा वाणलिङ्गन्तु तोषयेत् ॥ तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् । ततो जपं समाप्याथ स्तवेनानेन तोषयेत् ॥” * ॥
अथ स्तवः । “वाणलिङ्ग महाभाग संसारात्त्राहि मां प्रभो नमस्ते चोग्ररूपाय नमस्तेऽव्यक्तयोनये ॥ संसारकारिणे तुभ्यं नमस्ते सृक्ष्मरूपधृक् । प्रमत्ताय महेन्द्राय कालरूपाय वै नमः ॥ दहनाय नमस्तुभ्यं नमस्ते योगकारिणे । भोगिनां भोगकर्त्रे च मोक्षदात्रे नमो नमः ॥ नमः कामाङ्गनाशाय नमः कल्मषहारिणे । नमो विश्वप्रदात्रे च नमो विश्वस्वरूपिणे ॥ वाणस्य वरदात्रे च रावणस्य क्षयाय च । रामस्यानुग्रहार्थाय राज्याय भरतस्य च ॥ मुनीनां योगदात्रे च राक्षसानां क्षयाय च । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय च । भगप्रियाय सर्व्वाय वैरिणां निग्रहाय च ॥ परित्राणाय योगिनां कौलिकानां प्रियाय च । कुलाङ्गनानां भक्ताय कुलाचाररताय च ॥ कुलभक्ताय योगाय नमो नारायणाय च । मधुपानप्रमत्ताय योगेशाय नमो नमः ॥ कुलनिन्दाप्रणाशाय कौलिकानां सुखाय च । कुलयोगाय निष्ठाय शुद्धाय परमात्मने ॥ परमात्मस्वरूपाय लिङ्गमूलात्मकाय च । सर्व्वेश्वराय सर्व्वाय शिवाय निर्गुणाय च ॥ * ॥
इत्येतत् परमं गुह्यं वाणलिङ्गस्य शङ्कर । यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः ॥ स्तवस्यास्य प्रसादेन योगी योगित्वमाप्नुयात् । राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव च ॥ साधूनां साधनं देव कौलिकानां कुलं भवेत् । यं यं कामयते मन्त्री तं तमाप्नोति लीलया ॥ वाणलिङ्गप्रसादेन सर्व्वमाप्नोति सत्वरम् । किमन्यत् कथयामीह सर्व्वं वेत्सि कुलेश्वर ! ॥ महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! । देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले । पथनात् स्तवराजस्य न भयं लभते क्वचित् ॥ बाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितं मया । तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात् ॥ बाणलिङ्गं सदाराध्यं योगिनां योगसाधने । कौलिकानां कुलाचारे पशूनां शत्रुनिग्रहे ॥ वेदज्ञानां वेदपाठे रोगिणां रोगनाशने । यो यो नाराधयेदेनं सर्व्वं तन्निष्फलं भवेत् ॥” इति श्रीयोगसारे सर्व्वागमोत्तमे पार्व्वतीशिव- संवादे बाणलिङ्गस्तोत्रं समाप्तम् ॥ * ॥
अथ रौद्रलिङ्गलक्षणम् । “नदीसमुद्भवं रौद्रमन्योन्यस्य विघर्षणात् । नदीवेगात् समं स्निग्धं संजातं रौद्रमुच्यते ॥” इति वीरमित्रोदयः ॥ “सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति । तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ॥ नदीसारनर्म्मदाया वाणलिङ्गसमाकृति । तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति ॥ रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति । श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिपूजितम् ॥ स्वभावात् कृष्णवर्णं वा सर्व्वजातिषु सिद्धिदम् । नर्म्मदासम्भवं रौद्रं वाणालङ्गवदीरितम् ॥” इति रौद्रलिङ्गलक्षणम् । इति लक्षणसमुच्चयोऽपि ॥ अथ शिवनाभिलिङ्गलक्षणम् । “उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् । चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तमम् ॥ उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः । तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ॥” तस्य महिमा । “शिवनाभिमयं लिङ्ग प्रतिपूज्य महषिभिः । श्रेष्ठञ्च सर्व्वलिङ्गभ्यस्तस्मात् पूज्यं विशेषतः ॥” इति शिवनाभिलिङ्गलक्षणम् । इति वीरमित्रो- दयधृतशिवनारदसंवादः ॥ * ॥
अथ दैवलिङ्गलक्षणम् । सिद्धान्तशेखरे । “करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् । रेखाकोटरसंयुक्तं निम्नोन्नतसमन्वितम् ॥ दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्जितम् । लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना ॥ कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् । काकडिम्बफलाकारं गोललिङ्गमितीरितम् ॥” इति गोललिङ्गलक्षणम् ॥ अथार्षलिङ्गलक्षणं तत्रैव । “नानाकौलफलाकारं ब्रह्मसूत्रविवर्त्तनम् । मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम् ॥ नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् । मध्ये स्थूलं वरं लिङ्गमृषिबाणमुदाहृतम् ॥” इत्यार्षलिङ्गलक्षणम् ॥ * ॥
अथ लिङ्गलक्षणम् । “लिङ्गं हि द्विविधं प्रोक्तं कृत्रिमाकृत्रिमञ्चतत् । तल्लिङ्गं द्विविधं ज्ञेयमचलञ्च चलन्तथा । प्रत्येकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम् ॥ प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् । स्थापितं सचलं गेहे स्थिरं लिङ्गमयोजिते ॥ पञ्चधा तत् स्थितं लिङ्गं स्वयम्भु दैवपालकम् । आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते ॥” इति सिद्धान्तशेखरः ॥ “आचार्य्यमुनये स्वैरं स्वयम्भूतो महेश्वरः । यत्र चैव स्वयं व्यक्तं लिङ्गमस्तु स्वयम्भु तत् ॥ धमनी यस्य संस्पर्शात् दहति क्षिप्रमेव तु ॥” इति षट्कर्म्मदीपिका ॥ * ॥
“नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम् । अदष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते ॥ तल्लिङ्गन्तु स्वयम्भूतमपरं लक्षणच्युतम् । स्वयम्भु लिङ्गमित्युक्तं तच्च नानाविधं मतम् ॥ शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् । पद्माभमस्तकं ब्राह्म्यं छत्राभं शाक्रमुच्यते ॥ शिरोयुग्मं तदाग्नेयं त्रिपदं याम्यमीरितम् । खड्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति ॥ वायव्यं ध्वजवल्लिङ्गं कौबेरन्तु गदान्वितम् । ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् । सयम्भु लिङ्गमाख्यातं सर्व्वशास्त्रविशारदैः ॥” इति स्वयम्मुलिङ्गलक्षणम् ॥ इति सिद्धान्तशेखरः ॥ * ॥
“दृष्ट्वा लिङ्गं महेशस्य स्वयम्भू तस्य पार्व्वति ! । सर्व्वपापविनिर्मुक्तः परे ब्रह्मणि लीयते ॥” एतेषां पूजाफलं तत्रैव । “विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः । पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः ॥ एवं वै दारुजं ज्ञेयं चिह्रलिङ्गं तथा पुनः । स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यप्रदञ्च तत् ॥ पुत्त्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् ॥” इति मत्स्यसूक्तमहातन्त्रम् ॥ * ॥
“पारदञ्च महाभूत्यै सौभाग्याय च मौक्तिकम् । चन्द्रकाभ्तं मृत्युजित् स्याद्धाटकं सर्व्वकामदम् ॥” इति पद्मपुराणम् ॥ * ॥
“सर्व्वफलप्रदा भूमिर्मणयस्तद्बदेव हि । अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः ॥ रात्रौ प्रकाशकाः सर्व्वविषाद्याघातकारिणः । नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः ॥ वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनि- र्म्मितम् । सर्व्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम् ॥” इति वीरमित्रोदयधृतकालोत्तरः ॥ * ॥
“गांन्धं सौभाग्यदं लिङ्गं पौष्पं मुक्तिप्रदायकम् । नानाशूनोद्भवं लिङ्गं नानाकामप्रदायकम् ॥ सैकतं गुणदं लिङ्गं सौभाग्याय च लावणम् । उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् । तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत् ॥” इति लक्षणसमुच्चयः ॥ अथ गन्धलिङ्गम् । गरुडपुराणे । “कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य च । कुङ्कुमस्य त्रयश्चैव शशिना च चतुः समम् ॥ एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः । शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः ॥” पुष्पमयलिङ्गं यथा, —
“कार्य्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् । नवखण्डां धरां भुक्त्वा गणेशोऽधिपतिर्भवेत् ॥” अथ रजोमयलिङ्गम् । “रजोभिर्निर्म्मितं लिङ्गं यः पूजयति भक्तितः । विद्याधरपदं प्राप्य पश्चाच्छिवसमो भवेत् ॥” अथ गोशकृल्लिङ्गम् । “श्रीकामो गोशकृल्लिङ्गं कृत्वा भक्त्यां प्रपू- जयेत् । स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् ॥” स्वच्छेन भूमिपतनरहितेन । शून्योद्धृतेनेति यावत् ॥ * ॥
अथ यवगोधूमशालिजलिङ्गम् । “कार्य्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् । श्रीकामः पुष्टिकामश्च पुत्त्रकामस्तदर्च्चयेत् ॥” अथ सिताखण्डमयलिङ्गम् । “सिताखण्डमयं लिङ्गं कार्य्यमारोग्यवर्द्धनम् । वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम् ॥” तालं हरितालम् । त्रिकटुकं शुण्ठीपिप्पली- मरीचं इति प्रसिद्धम् । “गव्यघृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् ।” तथा । “लवणेन च सौभाग्यं पार्थिवं सर्व्वकामदम् । कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् ॥ भस्मोत्थं सर्व्वफलदं गुडोत्थं प्रीतिवर्द्धनम् । गन्धोत्थं गुणदं भूरि शर्करोत्थं सुखप्रदम् ॥ वंशाङ्कुरोत्थं वंशकरं गोमयं सर्व्वरोगदम् । केशास्थिसम्भवं लिङ्गं सर्व्वशत्रुविनाशनम् ॥ क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् । दारिद्र्यदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम् ॥ दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम् । धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत् ॥ पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धात्रीफलोद्भवम् । नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् ॥ दूर्व्वाकाण्डसमुद्भूतमपमृत्युनिवारणम् । कर्पूरसम्भवं लिङ्गं चलं वै भुक्तिमुक्तिदम् ॥ अयस्कान्तं चतुर्धा तु ज्ञेयं सामान्यसिद्धिषु ॥ सर्व्वं नवभवं श्रेष्ठं तत्र वज्रमरिच्छिदि । यमलिङ्गं महाभूत्यै सौभाग्याय च मौक्तिकम् । पुष्टिमूलं महानीलं ज्योतिश्चीरसमुद्भवम् ॥ स्पर्शकं कुलसन्नत्यै तैजसं सूर्य्यकान्तजम् । चन्द्रापीडं मृत्युजितं स्फाटिकं सर्व्वकामदम् ॥” चन्द्रापीडं चन्द्रकान्तमित्यर्थः । “शूलाख्यमणिजं शत्रुक्षयार्थं मौक्तिकं तथा ।” यत्सन्निधानात् शूलरोगनाशः स शूलमणिः ॥ “आपुत्त्रं हीरकं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् । शुभकृत् पुष्कलं तीर्थे वैदूर्य्यं शत्रुदर्पहृत् । नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्व्वकामदम् ॥” इति सारसंग्रहे ॥ “महाभुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम् । आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् ॥” आरकूटं पित्तलम् । “त्रषु सीसायसं लिङ्गं शत्रूणां नाशने हितम् । कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुष्टिवर्द्धनम् । पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्व्वसिद्धिदम् ॥” मिश्रजमष्टधातुनिर्म्मितम् ॥ इति कालोत्तरः ॥ “पितॄणां मुक्तये लिङ्गं पूज्यं रजतसम्भवम् । हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् ॥ पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः ॥” इति शिवनारदसंवादः ॥ ताम्रादिलिङ्गपुजनन्तु कलीतरपरम् । “ताम्रलिङ्गं कलौ नार्च्चेत् रैत्यस्य सीसकस्य च । रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा ॥ तुष्टिकामस्तु सततं लिङ्गं पित्तलसम्भवम् । कीर्त्तिकामो यजेन्नित्यं लिङ्गं कांस्यसमुद्भवम् ॥ शत्रुमारणकामस्तु लिङ्गं लौहमयं सदा । सदा सीसमयं लिङ्गमायुष्कामोऽर्च्चयेत् नरः ॥” इति मत्स्यसूक्तमहातन्त्रम् ॥ “स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् । प्रजावृद्धिकरं राङ्गं ताम्रमायुःप्रवर्द्धनम् ॥ विद्वेषकारणं कांस्यं रीतिजं शत्रुनाशनम् । रोगघ्नं सैसकं लिङ्गमायसं शत्रुनाशनम् ॥ अष्टलौहमयं लिङ्गं कुष्ठरोगक्षयावहम् । त्रिलौहसम्भवं लिङ्गं विज्ञानं प्रति सिद्धिदम् ॥” इति लक्षणसमुच्चयः ॥ “श्रीप्रदं वज्रजं लिङ्गं शिलाजं सर्व्वसिद्धिदम् । धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम् ॥” इति लिङ्गपुराणम् ॥ “गन्धपुष्पमयं लिङ्गं तथान्नादिविनिर्म्मितम् । कस्तूरीसम्भवं लिङ्गं धनाकाङ्क्षी प्रपूजयेत् ॥ लिङ्गं गोरोचनोत्थञ्च रूपकामस्तु पूजयेत् । कान्तिकामस्तु सततं लिङ्गं कुङ्कुमसम्भवम् ॥ श्वेतागुरुसमुद्भूतं महाबुद्धिविवंर्द्धनम् । धारणाशक्तिदं लिङ्गं कृष्णागुरुसमुद्भवम् ॥ यक्षकर्दमसम्भू तम् ।” इति कालोत्तरः ॥ “पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् । पाषाणे शिवपूजायां द्विगुणं फलमीरितम् ॥ स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् । सर्व्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ॥ ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंक्षयः । गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ स्फाटिके सर्व्वसिद्धिः स्यात्तथा मरकते प्रिये । लौहलिङ्गे रिपोर्नाशः कामदं भस्मलिङ्गकम् । बालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् । सर्व्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम् ॥” इति मातृकाभेदतन्त्रे १२ पटलः ॥ “ब्रह्मा संपूजयेन्नित्यं लिङ्गं शैलमयं शुभम् । तस्य संपूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् ॥ इन्द्रनीलमयं लिङ्गं विष्णुः समर्च्चयेत् सदा । विष्णुत्वं प्राप्तवान् तेन सोऽभूद्भूतैकपालकः ॥ स्फाटिकं निर्मलं लिङ्गं वरुणोऽभ्यर्च्चयेत् सदा । तेन तद्वरुणैत्वं हि प्राप्तं तेजोबलान्वितम् ॥” इति षट्कर्म्मदीपिकाधृतशिवधर्म्मः ॥ “पूजयेत् पार्थिवे लिङ्गे पाषाणलिङ्गकेऽथवा । स्वर्णलिङ्गेऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥ पारदे वाथ गङ्गायां स्फाटिके मरकतेऽपि वा । कार्य्यभेदे लौहलिङ्गे भस्मनिर्म्मितलिङ्गके ॥ बालुकानिर्म्मिते लिङ्गे गोमये वाथ पूजयेत् । संस्कारेण विना देवि पाषाणादौ न पूजयेत् ॥” इति मातृकाभेदतन्त्रे ७ पटलः ॥ इति शिवलिङ्गनिर्म्माणद्रव्याणि ॥ * ॥
अथ शिवलिङ्गसं स्कारः । “संस्कारञ्च प्रवक्ष्यामि विशेष इह यद्भवेत् ॥ रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च । तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् । त्र्यम्बकेन स्नापयित्वा कालरुद्रं प्रपूजयेत् ॥ षोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् । तस्मादुत्तोल्य तल्लिङ्गं गङ्गातोये दिनत्रयम् । ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः ॥” पूर्व्वोक्तवचनैः फलविशेषकामनया नानाविध- लिङ्गपूजोक्ता सा च पूजा । “लिङ्गं सुलक्षणं कुर्य्यात्त्यजेल्लिङ्गमलक्षणम् । दैर्घ्यहीने भवेद्व्याधिरधिके शत्रुवर्द्धनम् ॥ मानहीने विनाशः स्यादधिके च शिशुक्षयः । विस्तारे चाधिके हीने राष्ट्रनाशो भवेद्ध्रुवम् ॥ पीठहीने तु दारिद्र्यं शिरोहीने कुलक्षयः । ब्रह्मसूत्रविहीने च राज्ञां राष्ट्रञ्च नश्यति । तस्मात् सर्व्वप्रयत्नेन लिङ्गं कुर्य्यात् सुलक्षणम् ॥” इत्यादिना सुलक्षणलिङ्गस्यैव फलदातृत्वमुक्तम् । इति मातृकाभेदतन्त्रे ७ पटलः ॥ देव्युवाच । “इन्द्रियै रहितो देवः शून्यरूपः सदाशिवः । आकारो नास्ति देवस्य किं तस्य पूजने फलम् ॥ शिव उवाच । प्रेते पूजा महेशानि कदाच



Correction: