शब्दकल्पद्रुमः
लिङ्गनी || स्त्री (लिङ्गमस्त्यस्या इति । लिङ्ग + इनिः ।)
लताविशेषः । पञ्चगुरिया इति हिन्दी भाषा । तत्पर्य्यायः । बहुपत्री २ ईश्वरी ३ शिववल्लिका ४ स्वयम्भः ५ लिङ्गसम्भूता ६ लैङ्गी ७ चित्रफला ८ चाण्डाली ९ लिङ्गजा १० देवी ११ चण्डा १२ आपस्तम्भिनी १३ शिवजा १४ शिववल्ली १५ । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । दुर्गन्धत्वम् । रसायनत्वम् । सर्व्व- सिद्धिकरत्वम् । दिव्यत्वम् । वश्यत्वम् । रस- नियामनत्वञ्च । इति राजनिर्घण्टः ॥ (सन्न्या- सादिलिङ्गधारिणी । यथा, सुश्रुते । ४ । २४ । “लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्व्वसु । वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः ॥”)