वाचस्पत्यम्
लिङ्गपुराण || पु० व्यासप्रणीते महापुराणभेदे लिङ्गपुराण- प्रतिपाद्यविषया यथा “व्रह्मोवाच “शृणु पुत्र! प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् । पठतां शृण्वता- ञ्चैव भुक्तिमुक्तिप्रदायकम् । यच्च लिङ्गाभिधे तिष्ठत् वह्निलिङ्गे हरोऽभ्यधात् । मह्यं धर्मादिसिद्ध्यर्थमग्नि- कल्पकथाश्रयम् । तदेव व्यासदेवेन भागद्वयसमाचितम् । पुराणं लिङ्गमुदितं वह्वाख्यानविचित्रितम् । तदेकादश- सहस्रं हरमाहात्म्यसूचकम् । परं सर्वपुराणानां सारभूतं जगत्त्रये । पुराणोपक्रमे प्रश्नः सृष्ठिसंक्षेपतः पुरा” । तत्र पूर्वभागे “योगाख्यानं ततः प्रोक्तं कल्पा- ख्यानं ततः परम् । लिङ्गोद्भवस्तदर्च्चा च कीर्चिता हि ततःपरम् । सनत्कुमारशैलादिसंवादश्चाथ पापनः । ततो दधीचिचरितं युगधर्मनिरूपणम् । ततो भुवनकोषाख्या सूर्य्यसोमान्वयस्ततः । ततश्च विस्तरात् सर्गस्त्रिपुराख्या- नकं तथा । लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम् । शिवव्रतानि च तथा सदाचारनिरूपणम् । प्रायश्चित्ता- न्यरिष्टानि काशीश्रीशैलवर्णनम् । अन्धकाख्यानकं पश्चा- द्वाराहचरितं पुनः । नृसिंहचरितं पश्चाज्जलन्धरबध- स्ततः । शैवं सहह्रनामाय दक्षयज्ञविनाशनम । कामस्य दहनं पश्चात् गिरिजायाः करग्रहः । ततो विनायका ख्यानं नृत्याख्यानं शिवस्य च । उपमन्युकथा चापि पर्वभाग इतीरितः” । उत्तरभागे “विष्णुमाहात्म्यकथनमम्ब- रीषकथा ततः । सनतकुमारनन्दीशसंवादश्च पुनर्मुने! । शिवमाहात्म्यसंयुक्तस्नानयागादिकं ततः । सूर्य्यपूजाविधि- श्चैव शिवपूजा च मुक्तिर्दा । दानानि बहुधोक्तानि आद्धप्रकरणन्ततः । प्रतिष्ठा तत्र गदिता ततोऽघोरस्य कीर्त्तनम । व्रजेश्वरी महाविद्या गायत्रीमहिमा ततः । त्र्यम्बकस्य च माहात्म्य पुराणश्रवणस्य च । एतस्योप- रिभागस्ते लैङ्गस्य कथितो मया । व्यासेन हि निव- द्धस्य रुद्रमाहात्म्यसूचिनः । लखित्वैतत् पुराणन्तु तिलधेनुसभाचितम् । फाल्गुन्यां पूर्णिमायां यो दद्या- द्भक्त्या द्विजातये । यः पठेच्छृणुयाद्वापि लैङ्गं पापा- पर्ह नरः । स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं व्रजेत् । लिङ्गानुक्रमणीमेतां पठेद् यः शृणुयात् तथा । तावुभौ शिवभक्तौ तु लोकद्वितयमोगिनौ । जायेतां गिरिजाभर्तुः प्रसादाम्रात्र मंशयः” नार० पु० १०२ अ० ।