संस्कृत-शब्दकोशः

लिङ्गिनी लिङ्गोपहित

लिङ्गिन्

वाचस्पत्यम्

लिङ्गिन् ||‍ त्रि० लिङ्गमस्त्यस्य इनि । १ चिह्नवति, २ जीवि- कार्थसंन्यासादिचिह्नवति ३ प्रशस्तलिङ्गवति गजे च पु० जटा० । ४ लिङ्गज्ञानज्ञेये साध्ये ५ पक्षे च । “तल्लिङ्गालङ्गिज्ञानपूर्वम्” सा० का० व्याख्याने लिङ्गि- ग्रहणञ्चावर्त्तनीयं तेन लिङ्गमस्यास्तीति पक्षधर्मताज्ञान- मपि दर्शितम्” त० कौ० ।


शब्दकल्पद्रुमः

लिङ्गी || [न्], पुं, (लिङ्गमस्त्यस्येति । इनिः ।)
हस्ती । इति जटाधरः ॥ त्रि, धर्म्मध्वजी । यथा, —
“अलिङ्गी लिङ्गवेशेन यो लिङ्गमुपजीवति । स लिङ्गिनां हरेदेनस्तिर्य्यग्योनौ च गच्छति ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (वासनाश्रयः । इति श्रीधरस्वामी ॥ यथा, भागवते । ४ । २९ । ६५ । “तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भ- वम् । श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमिच्छति ॥”)



Correction: