संस्कृत-शब्दकोशः

लिङ्गिन् लिप

लिङ्गोपहित

वाचस्पत्यम्

लिङ्गोपहित ||‍ पु० लिङ्गेन हेतुना उपहितः विशिष्टः । सा- ध्यानुमानाङ्गहेतुयुक्ते पक्षे । आचार्य्यमते लिङ्गोप- हित एव पक्षे लैङ्गिकस्य साध्यस्य भानम् । तथा हि वह्निव्याप्यो हि धूमो वह्नेर्लिङ्गं तद्वति पक्षे वह्नेर्मानम् वह्निव्याप्यधूमनान् पर्वत इति परामर्शोत्तरं जायमाना- नुमाने ज्ञानलक्षणया तादृशपक्षमानस्यावश्यकत्वात् । तथा च वह्निव्याप्यधूमवान् पर्वतो वह्निमान् इत्येव तत्रानुमानप्रकारः ।



Correction: