संस्कृत-शब्दकोशः

लिङ्गोपहित लिपि

लिप

वाचस्पत्यम्

लिप ||‍ लेपने, तुदा० उभ० मुचा० सक० अनिट् । लिम्पति ते अलिपत् अलिपत अलिप्त ।


शब्दकल्पद्रुमः

लिप || ञि औ श प ञ लेपे । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।)
ञि, लिप्तो- ऽस्ति । औ, लेप्ता । श प ञ, लिम्पति लिम्पते चन्दनेन गात्रं सुखी । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लिपः || पुं, (लिम्पतीति । लिप + कः ।)
लेपन- कर्त्ता । इति लिपधातोः कर्त्तरि कप्रत्ययेन निष्पन्नम् ॥



Correction: