वाचस्पत्यम्
लिपि(पी) || स्त्री लिप—इक् वा ङीप् । १ लिखिताक्षरके पत्रे, अमरः २ लेखने च ।
शब्दकल्पद्रुमः
लिपिः || स्त्री (लिप + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । सच कित् ।)
लिखित- वर्णम् । तत्पर्य्यायः । लिखितम् २ अक्षरसंस्था- नम् ३ लिबिः ४ । इत्यमरः ॥ लिखनम् ५ लेख- नम् ६ अक्षरविन्यासः ७ लिपी ८ लिबी ९ । इति तट्टीका ॥ अक्षररचना १० । इति जटा- धरः ॥ लिपिका ११ । इति शब्दरत्नावली ॥ (यथा, नैषधे । १ । १५ । “अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्रदरिद्रतां नृपः ॥” अस्याः पञ्चविधत्वं यथा, वाराहीतन्त्रे । “मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः ॥”)
लिखितपुस्तकादि । इति केचिदिति भरतः ॥