संस्कृत-शब्दकोशः

लिपी लिप्तक

लिप्त

वाचस्पत्यम्

लिप्त ||‍ त्रि० लिप—क्त । १ भुक्ते, २ कृतचन्दनादिलेपे अमरः ३ मिलिते सि० कौ० ४ विपदिग्धे च मेदि० । ज्योतिषोक्ते राशेः षष्टिभागात्मके कलारूपे ५ भागे स्त्री । “लिप्तार्द्धहीनं यदि पूर्णमेतत्” इति नी० ताजकम् । स्वार्थे क अत इत्त्वम् । लिप्तिका दण्डात्मककाले ।


शब्दकल्पद्रुमः

लिप्तं || त्रि (लिप + क्तः ।)
भक्षितम् । कृत- लेपनम् । तत्पर्य्यायः । दिग्धम् २ । इत्यमरः ॥ विलिम्पितम् ३ । इति शब्दरत्नावली ॥ चर्च्चि- तम् ४ । इति जटाधरः ॥ (यथा, कथासरित्- सागरे । ४ । ४८ । “तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया ॥”)
मिलितम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ विषदिग्धम् । इति मेदिनी । ते, ५२ ॥



Correction: