वाचस्पत्यम्
ली || द्रावणे वा चुरा० उभ० सक० सेट् पक्षे भ्वा० पर० अ निट् । लीनयति ते लाय(प)यति ते घृतम् लयति । अस्नेहद्रावणे लौहं विलायतीत्येव । प्रलम्भने अभिभवे पूजायाञ्च सक० आत्म० । तत्र नित्यमात्त्वे पुक । जटा- भिर्लापयते पूजामधिगच्छतात्यर्थः । श्योनो वर्त्तिकामु- ल्लापयते अभिभवतीत्यर्थः । वालमुल्लापयत वञ्चयतीत्यर्थः । अलीलनत् त अलील(प)यत् त । अलेषीत् । अलासीत् ।
वाचस्पत्यम्
ली || श्लेषे क्र्या० पा० पर० अक० अनिट् । लिनाति अलैषीत् ।
वाचस्पत्यम्
ली || श्लेषे दिवा० आ० अक० अनिट् । लीयते अलेष्ट । ओदित् निष्ठातस्य नः । लीनः ।
शब्दकल्पद्रुमः
ली || कि द्रावणे । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-अनिट् ।)
द्रावणं द्रवी- करणम् । कि, लाययति लयति । मिम्यो- र्यब्णाविति लापयति लोहमग्नौ कर्म्मकारः । स्नेहद्रवे तु लाल्योर्लन्ननाविति जनो घृतमग्नौ लीनयत्यपि । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
ली || गि श्लिषि । इति कविकल्पद्रुमः ॥ (क्र्या०- पर०-अक०-अनिट् ।)
गि, लिनाति बाला लावण्यं प्राप्नोतीत्यर्थः । कर्म्माविवक्षायान्तु लिनाति जलधौ नदी । लीनः लीनिः । अयं अन्तःस्थतृतीयादिः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
ली || ङ य ओ श्लिषि । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।)
ङ य, लीयते चन्द्रः सूर्य्ये । ओ, लीनः । इति दुर्गा दासः ॥