लीढ
लीला
लीन
शब्दकल्पद्रुमः
लीनः || त्रि (ली + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।)
लयप्राप्तः । श्लिष्टः । इति व्याकरणम् ॥ अपि च । “दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसामतीव ॥” इति कुमारसम्भवे । १ । १२ ॥