वाचस्पत्यम्
लुप्त || न० लुप—क्त । १ अपहृतधने । २ छिन्ने ३ नष्टे त्रि० ।
शब्दकल्पद्रुमः
लुप्तं || क्ली (लुप् + क्तः ।)
चौर्य्यधनम् । लोत इति ख्यातम् । इति शब्दरत्नावली ॥ लोप- वति, त्रि । यथा, —
“चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च । प्रशंसा निन्दनं द्वेषात् परुषान्न विशिष्यते ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च, आर्य्यासप्तशत्याम् । ३६३ । “परिवृत्तनाभि लुप्तत्रिबलि श्यामस्तनाग्र- मलसाक्षि । बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥”)