वाचस्पत्यम्
लुब || अर्द्दने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । लुम्बयति ते लुम्बति । अलुलुम्बत् त अलुम्बीत् ।
शब्दकल्पद्रुमः
लुब || कि इ अर्द्दने । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।)
कि, लुम्बयति लुम्बति । इ, लुम्ब्यते । अर्द्दनं वघः । इति दुर्गादासः ॥