वाचस्पत्यम्
लुब्ध || पु० लुभ—क्त । १ व्याधे । २ लम्पटे शब्दर० ३ लोलुपे च मेदि० । स्वार्थे क । तत्रैव । लुब्ध इव कायति कै—क । लुब्धक व्याधाकारताराभेदे खगोलशब्दे २४२२ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
लुब्धः || त्रि (लुभ + क्तः ।)
आकाङ्क्षी । इति मेदिनी । धे, १४ ॥ तत्पर्य्यायः । गृध्नुः २ । गर्द्धनः ३ अभिलाषुकः ४ तृष्णक् ५ । इत्य- मरः ॥ (यथा, कथासरित्सागरे । ५५ । ३० । “लुब्धो यशसि नत्वर्थे भीतः पापान्न शत्रुतः । मूर्खः परापवादेषु नच शास्त्रेषु योऽभवत् ॥”)
शब्दकल्पद्रुमः
लुब्धः || पुं, (लुभ + गत्यर्थेति क्तः ।)
व्याधः । (यथा, महाभारते । १६ । ४ । २१ । “स संनिरुद्धेन्द्रियवाङ्मनास्तु शिष्ये महायोगमुपेत्य कृष्णः । जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगसंलिप्सुरुग्रः ॥”)
लम्पटः । इति शब्दरत्नावली ॥