वाचस्पत्यम्
लेखन || न० लिख० ल्युट् । १ पत्रादौ वर्णादिविन्यासे, २ छर्दने च । आधारे ल्युट् । ३ भूर्ज्जपत्रे मेदि० । लिख्यते- ऽनया ल्युट् । ४ काशे राजनि० ५ लेखनसाधने (कलम) स्त्री ङीप् । “मस्याधारं लेखनीञ्च” इति ति० त० । ६ रोगोत्सारणार्थशस्त्रभेदे स्त्री ७ अञ्जनाङ्गे व्यापारभेदे ८ चूर्णभेदे च न० । ९ लेखनसाधनवर्त्तिभेदे स्त्री भावप्र० तत्र लक्षणक्रियां तत्साधनलेखनीप्रमाणञ्चोक्तं यथा ||“लेखनं क्षारतिक्ताम्लरसैरञ्जनमुच्यते । नेत्रवर्त्म- सिराजालश्रोत्रशृङ्गाटकस्थितम् । मुखलालाक्षिमि- र्दोपमुत्क्लेश्य स्रावयेच्च तत्” । तद्वर्त्तिमानं तत्रैव “एरण्डमात्रारत्रिस्तु लेखनी स्यात् प्रमाणतः । चूर्णं तु लेखनं वैद्यैर्द्विशलाकं प्रदीयते । तस्य शलाकास्वरूपादि तत्रैव “मुखे सुकुमुमाकारा कलायपरिमण्डला । अष्टा- ङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा” कलायपरिम- ण्डला अग्रे कलायवद् वर्तुला । “ताम्रलोहाश्मसंजाता शलाका लेखने मता” । चन्द्रोदयाख्या लेखनी वर्त्तिश्च तत्रोक्ता यथा “शङ्खनाभिविभीतस्य मज्जा पथ्या मतः- शिला । पिप्पली मरिचं कुष्ठं वचा चेति समांशकम । छागक्षीरेण संपिष्य वर्त्तिं कुर्य्यात् यवोन्मिताम् । एरण्डमात्रां संपिष्य जलैः कुर्य्याद्यथाञ्जनम् । तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम् । रात्र्यन्धं वार्षिकं पुष्पं वर्त्तिश्चन्द्रोदया हरेत्” । रसक्रिया लेखनी तत्रैवोक्ता यथा “तुत्थमाक्षिकसिन्धूत्थासिताशङ्खमनःशिला । गैरिकं सिन्धुफेनञ्च मरिचं चेति चूर्णयेत् । संयोज्य मघुना कुर्यादञ्जनार्थं रसक्रियाम् । वर्त्मरीगार्शतिभिरकाच- शुक्लहरीं पराम्” । चूर्णलेखनञ्च तत्रोक्तं यथा “दक्षा- ण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः । अञ्जनं हरते नित्यं सर्वानक्षिगदान् बलात्” दक्षः कुक्कुटः” । अक्षरलेखनी- प्रमाणादि योगिनीतन्त्रोक्तं यथा “वंशसूठ्या लिखेद् यस्तु तस्य हानिर्भवेद् ध्रुवम् । ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत् । महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शला- कया । वृहन्नलस्य सूच्या वै नातिवृद्धिः प्रजायते । तथा अग्निमयैर्देवि! पुत्रपौत्रघनागमः । रैत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत् । अष्टाङ्गुल- प्रमाणेन दशाङ्गुलेन चाथ वा । चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे! । तत्तदक्षरसंख्याते स्वल्पायुर्याति वै दिने ।”
शब्दकल्पद्रुमः
लेखनं || क्ली (लिख + ल्युट् ।)
छर्द्दनम् । भुर्ज्जत्वफ् । अक्षरविन्यासः । इति मेदिनी । मे, १२२ ॥ * ॥
भूमौ लेखननिषेधो यथा, —
“न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तकं लिखेत् ॥” इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥ लेखनाञ्जनम् । यथा, —
“दक्षाण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः । चूर्णितैरञ्जनं प्रोक्तं पुष्पार्म्मादिनिकृन्तनम् ॥” दक्षः कुक्कुटः तस्याण्डस्य त्वक् । शिला मनः- शिला । इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
लेखनः || पुं, (लिख + ल्युः ।)
काशः । इति राज- निर्घण्टः ॥