वाचस्पत्यम्
लेखनिक || पु० लेखनं शिल्पमस्य ठन् । लिपिकरे मेदि० ।
शब्दकल्पद्रुमः
लेखनिकः || पुं, (लेखनं शिल्पमस्य । लेखन + ठन् ।) लेखहारकः । परहस्तेन लेखकः । स्वहस्तेन लेखकः । इति मेदिनी । के, २११ ॥