संस्कृत-शब्दकोशः

लेखनिक लेखनीय

लेखनी

शब्दकल्पद्रुमः

लेखनी || स्त्री लिख्यतेऽनया । (लिख + ल्युट् । ङीष् ।)
लेखनसाधनवस्तु । तत्पर्य्यायः । वर्ण- तूलिका २ । इति हारावली ॥ वर्णतूली ३ कलमः ४ अक्षरतूलिका ५ । इति जटाधरः ॥ कराश्रयः ६ चित्रकः ७ । इति शब्दरत्ना- वली ॥ * ॥
(यथा, महाभारते । १ । १ । ७८ । “श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदास्यां लेखको ह्यहम् ॥”)
लेखनीकरणशुभाशुभं यथा, —
“वंशसूच्या लिखेद्बर्णं तस्य हानिर्भवेद्ध्रुवम् । ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत् ॥ महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शलाकया । बृहन्नलस्य सूच्या वै मतिवृद्धिः प्रजायते ॥ तथा अग्निमयैर्द्देवि पुत्त्रपौत्त्रधनागमः ।” अग्निमयैश्चित्रकाष्ठमयैः । “रैत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत् ॥ अष्टाङ्गुलप्रमाणेन दशाङ्गुलेन वाथवा । चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे । तत्तदक्षरसंख्ये तु स्वल्पायुर्याति वै दिने ॥” यथा रैत्येनेत्यादिवचने एकत्रैव विधिनिषेधौ तथात्राप्यष्टाङ्गुलदशाङ्गुलयोर्विधिः निषेधश्चतु- रङ्गुले । इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥ (खटिका । तत्पर्य्यायो यथा, —
“खटिका कठिनी चापि लेखनी च निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: