शब्दकल्पद्रुमः
लेखनीयः || त्रि लेख्यम् । लेखितव्यम् । इति लिख- धातोः कर्म्मण्यनीयप्रत्ययेन निष्पन्नम् ॥ (यथा, सुश्रुते । ६ । १८ । “स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा ॥”)