वाचस्पत्यम्
लेष्टु || पु० लिष—तुन् । लोष्टे अमरः ।
शब्दकल्पद्रुमः
लेष्टुः || पुं, (लिश्यते इति । लिश् + बाहुलकात् तुन् ।)
लोष्टम् । इत्यमरः ॥ (यथा, महाभारते । १३ । ३४ । २६ । “अथ यो ब्राह्मणान् क्रुष्टः पराभवति सोऽ- चिरात् । यथा महार्णवे क्षिप्त आमलेष्टुर्व्विनश्यति ”)