वाचस्पत्यम्
लेश || पु० लिश अल्पीभावे घञ् । १ अल्पे २ लवे अमरः । ३ अल्पत्वे च ।
शब्दकल्पद्रुमः
लेशः || पुं, (लिश् + घञ् ।) कणा । इत्यमरः ॥ (यथा, महाभारते । १२ । ५८ । २४ । “एष ते राजधर्म्माणां लेशः समनुवर्णितः ॥”)