वाचस्पत्यम्
लेह्य || त्रि० लिह ण्यत् । जिह्वया १ आखाद्ये । २ अमृते न० शब्दच० ।
शब्दकल्पद्रुमः
लेह्यं || क्ली (लिह् + ण्यत् ।)
अमृतम् । इति शब्दमाला ॥ लेहनीये, त्रि ॥ (यथा, कथा- सरित्सागरे । ४५ । २३० । “तत्तन्नानाविधं भक्ष्यभोज्यलेह्यादि षड्रसम् । दिव्यमम्नं बुभुजिरे पपुः पानमथोत्तमम् ॥” आहारविशेषो यथा, —
“आहारं षड्विधञ्चूष्यं पेयं लेह्यन्तथैव च । भोज्यं भक्ष्यन्तथा चर्व्व्यं गुरु विद्याद्यथोत्त- रम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)