वाचस्पत्यम्
लोक || दर्शने भ्वा० आ० सक० सेट् । लोकते अलोकिष्ट लुलोके । ऋदित् चङि न ह्रस्वः । अलुलोकत् त ।
वाचस्पत्यम्
लोक || दीप्तौ चु० उभ० सक० सेट् । लोकयति ते अलूलुकत् त ।
वाचस्पत्यम्
लोक || पु० लोक्यतेऽसौ लोक—घञ् । १ भुवने भुवनशब्दे दृश्यम् । २ जने च अमरः । भावे घञ् । ३ दर्शने ।
शब्दकल्पद्रुमः
लोक || ऋ क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
ऋ, अलुलोकत् । क, लोकयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लोक || ऋ ङ ईक्षे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ऋ, अलुलोकत् । ङ, लोकते । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकाम- विस्तारफलं हरिण्यः । इत्यादौ विलोकनं विलोकः पश्चात् तं करोतीति ञौ साध्यम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लोकः || पुं, (लोक्यते इति । लोक् + घञ् ।)
भुव- नम् । जनः । इत्यमरः ॥ सप्तलोकनामानि यथा, —
“भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव च । सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ॥” इत्यग्निपुराणम् ॥ अपि च । “भूर्लोको भुवः स्वर्लोकस्त्रैलोक्यमिदमुच्यते । महर्ज्जनस्तपः सत्यः सप्त लोकाः प्रकीर्त्तिताः ॥ भूर्लोकः पार्थिवो लोकः अन्तरीक्षं भुवः स्मृतः । भाव्यो लोको दिवि ह्येतच्छेषादूर्द्ध्वं यथाक्रमम् ॥ भूतस्याधिपतिर्ह्यग्निस्ततो भूतपतिस्तु सः । वायुर्नभसोऽधिपतिस्तेन वायुर्नभस्पतिः । भाव्यस्य सूर्य्याधिपतिस्तेन सूर्य्यो दिवस्पतिः ॥ गन्धर्व्वाप्सरसश्चैव गुह्यकाः सह राक्षसैः । भूर्लोकवासिनः सर्व्वे अन्तरीक्षचरान् शृणु ॥ मरुतः सप्तभिः स्कन्दै रुद्रास्तथैव चाश्विनौ । आदित्या वसवः सर्व्वे तथैव च गवाङ्गनाः ॥ चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः । प्रजानां पतिभिः सर्व्वैः सेव्यते पञ्चमो महान् ॥ मनुः सनत्कुमाराद्या वैराजश्च सुतास्त्रयः । षष्ठे तु संस्थिता ह्मेते देवा देवविरोधकाः ॥ सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥ महीतलात् सहस्रांशस्तत ऊर्द्ध्वं दिवाकरः । दश तानि ध्रुवे यावद्द्बिगुणे द्बिगुणान्तरे ॥ दशयोजनकोट्यास्तु मेरुरूर्द्ध्वं ध्रुवः स्मृतः । त्रयोविंशतिलक्षाणि त्रैलोक्येशैक उच्यते ॥ द्विगुणेषु सहस्रेषु योजनानां शतेषु च । लोकान्तरमथैवैकं ध्रुवादूर्द्ध्वं विधीयते ॥ देवदानवगन्धर्व्वयक्षराक्षसपन्नगाः । भूतविद्याधराश्चैव अष्टौ ते देवयोनयः ॥ ते ब्रह्माण्डस्य मध्यस्थाः परतस्तमसावृतम् । ततोऽग्निवायुराकाशं ततो भूतादिरुच्यते ॥ ततो महान् प्रधानञ्च प्रकृतिः पुरुषस्ततः । पुरुषादीश्वरो ज्ञेयो यस्य शक्त्यावृतं जगत् । शिवोमाभानुदेवानां परापरतरा मताः ॥” इति देवीपुराणे त्रैलोक्याभ्युदये ग्रहगति- र्नामाध्यायः ॥ * ॥
दिक्पालानां लोका यथा, “प्रजापतिस्तु भगवान् गुणतः प्रेक्ष्य देवताम् । आघिपत्येषु शुक्लेषु न्ययोजयत योगवित् ॥ त्रयाणामपि लोकानां देवतानां द्विजोत्तमाः । चकार शक्रं राजानं दैत्यानां दितिपूर्ब्बजम् ॥ पूर्ब्बस्यां कौशिको राजा दक्षिणस्यां यमो दिशि । वरुणः पश्चिमायान्तु उत्तरस्यां सदा धनी ॥” * ॥
पुण्यवतां लोका यथा, —
“एवं विभज्य राज्यानि पुरा प्रोक्तानि यानि च । लोकांश्च विदधे दिव्यान् ददावथ पृथक् पृथक् ॥ कस्यचित् सूर्य्यसङ्काशान् कस्यचिद्वह्रिनिर्म्म- लान् । कस्यचिद्धिष्ण्यविद्योतान् कस्यचिच्चन्द्रनिर्म्म- लान् ॥ नानावर्णान् काममयाननेकशतयोजनान् । स तान् सुकृतिनां लोकान् पावनाय च संस्थि- तान् ॥ भानूर्द्ध्वे ये तपस्यन्ति सौम्यास्तारागणाः सदा । एते सुकृतिनां लोका ये शान्ताः पुण्यकर्म्मभिः । ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः । स्वदारनिरता दान्ता ऋजवः सत्यवादिनः ॥ दीनानुग्रहकर्त्तारो ब्रह्मण्या लोकपूजिताः । योगयुक्ता महात्मानो यान्ति तत्र तपोज्ज्वलाः ॥ सर्व्वं सहाः क्षमायुक्ता कोपिता ये तमोजिताः । एवं नियोज्य तनयान् स्वयं लोकपितामहः । पौष्करं ब्रह्मसदनमारुरोह प्रजापतिः ॥ सर्व्वे स्वयम्भुदत्तेषु पावनेषु दिवौकसः । रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ॥” इति वह्रिपुराणे वाराहप्रादुर्भावनामाध्यायः ॥ (जनार्थे विषयोऽस्य यथा, —
“यथा लोकस्य स्वार्गादिस्तथा पुरुषस्य गर्भा- धानं यथा कृतयुगमेवं बाल्यम् । यथा त्रेता तथा यौवनं यथा द्वापरस्तथा स्थाविर्य्यं यथा कलिरेवमातुर्य्यं यथा युगान्तस्तथा मरणमित्येव- मनुमानेनानुक्तानामपि लोकपुरुषयोरवयव- विशेषाणामग्निवेशसामान्यं विद्यात् ।” “तत्र संयोगापेक्षी लोकशब्दः षड्धातुसमुदायो हि सामान्यतः सर्व्वलोकः । तस्य हेतुरुत्- पत्तिर्वृद्धिरुपप्लवो वियोगश्च तत्र हेतुरुत्पत्ति- कारणं उत्पत्तिर्जन्म वृद्धिराप्यायनं उपप्लवो दुःखागमः षड्धातु विभागो वियोगः स जीवापगमः स प्राणनिरोधः स भङ्गः स लोक- स्वभावः ।” इति चरके शारीरस्थाने पञ्चमे- ऽध्याये ॥ “तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् । लोकोहि द्विविधः स्थावरो जङ्गमश्च । द्बिविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् । पञ्चात्मको वा ।” इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये ॥ * ॥
)