संस्कृत-शब्दकोशः

लोकेश्वरात्मजा लोचक

लोच

वाचस्पत्यम्

लोच ||‍ दर्शने भ्वा० आत्म० सक० सेट् । लोचते अलोचिष्ट ऋदित् चङि न ह्रस्वः ।


वाचस्पत्यम्

लोच ||‍ दोप्तौ चु० उभ० अक० सेट् । लाचयति ते ऋदित् चङि न ह्रस्वः । अलुलचित् त ।


शब्दकल्पद्रुमः

लोच || ऋ क भासि । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।)
ऋ, अलुलोचत् । भासि दीप्तौ । किन्तु पुरुषोत्तमशरणदेवौ भाष इति मूर्द्धन्यषकारं मत्वा वचनार्थमाहतुः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लोच || ऋ ङ ईक्षे । इति दुर्गादासः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ईक्षः पर्य्यालोचनं प्रणि- धानमिति यावत् । ऋ, अलुलोचत् । ङ, लोचते कार्य्यं सुधीः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लोचं || क्ली (लोचते पर्य्यालोचयति सुखदुःखा- दिकमिति । लोच + अच् ।)
अश्रु । इति जटाधरः ॥



Correction: