वाचस्पत्यम्
लोचक || न० लोच—ण्वुल् । १ मांसपिण्डे, २ अक्षितारके ३ क- ज्जसे ४ स्त्रीणां ललाटाभरणे, ५ नीलवस्त्रे, ६ कर्णपूरे, ७ कदल्यां, ८ मूर्वायां ९ निर्बुद्धौ भ्रूश्लथचर्मणि मेदि० ११ सर्पकञ्चुके शब्दर० ।
शब्दकल्पद्रुमः
लोचकः || पुं, (लोचते इति । लोच + ण्वुल् ।)
मांसपिण्डम् । अक्षितारका । कज्जलम् । स्त्रीणां ललाटाभरणम् । कदली । नीलवस्त्रम् । निर्ब्बुद्धिः । कर्णपूरः । मूर्व्वी । भ्रूश्लथचर्म्म । इति मेदिनी । के, ५० ॥ निर्म्मोकः । इति शब्दरत्नावली ॥