संस्कृत-शब्दकोशः

लोत्र लोध्र

लोध

वाचस्पत्यम्

लोध ||‍ पु० रुध—अच् रस्य लः । स्वनामख्याते वृक्षे रत्नमा० ।


शब्दकल्पद्रुमः

लोधः || पुं, (रुणद्धीति । रुध + अच् । रस्य लः ।)
स्वनामख्यातवृक्षः । रक्तवर्णस्य तस्य पर्य्यायः । तिरीटः २ मार्ज्जनः ३ रक्तः ४ लोध्रः ५ तिन्दुकः ६ । श्वेतस्य तस्य पर्य्यायः । शुक्लः २ शवरलोध्रः ३ महालोध्रः ४ शावरः ५ । इति रत्नमाला ॥ अस्य गुणाः । अस्रकफवात- नाशित्वम् । चक्षुष्यत्वम् । शोथजित्त्वम् । सर- त्वञ्च । इति राजवल्लभः ॥



Correction: