वाचस्पत्यम्
लोप || पु० लुप—भावे घञ् । १ विनाशे २ छेदने, ३ आकुलीभावे, ४ व्याकरणोक्ते अदर्शनरूपे नाश च । लोपयति स्त्रीणां रूपगर्वम् अच् । २ अगस्त्यमुनिपत्न्यां स्त्री जटा० ।
शब्दकल्पद्रुमः
लोपः || पुं, छेदः । आकुलीभावः । लुपधातोर्भावे घञ्प्रत्ययेन निष्पन्नोऽयम् । (अभावः । यथा, रघुः । १ । ६८ । “सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥”)
व्याकरणमते वर्णनाशः । तथा हि । नाश- विधिर्यथा । लोपोऽस्योमाङोरित्यादि ॥ अपि च । “सकलेभ्यो विधिभ्यः स्याद्बली लोपविधिस्तथा । लोपस्वरादेशयोस्तु स्वरादेशो विधिर्ब्बली ॥” इति दुर्गादासः ॥