संस्कृत-शब्दकोशः

लोपापिका लोपामुद्रापति

लोपामुद्रा

वाचस्पत्यम्

लोपामुद्रा ||‍ स्त्री मुदं राति रा—क कर्म० । अगस्त्यमुनि- पत्न्याम् अमरः ।


शब्दकल्पद्रुमः

लोपामुद्रा || स्त्री अगस्त्यमुनिभार्य्या । इत्यमरः ॥ लोपयति योषितां रूपाभिधानमिति लोपा पचाद्यन् आमुद्रयति स्रष्टुः सृष्टिमिति आमुद्रा अन् ततः कर्म्मधारयः । किंवा न मुदं राति अमुद्रा पतिशुश्रूषाया लोपे अमुद्रा लोपा- मुद्रा । लोपा च । “लोपामुद्रा तु वैदर्भी लोपा स्त्री कुम्भजन्मनः ॥” इति कण्ठभूषणम् । इति भरतः ॥ * ॥
अस्या अर्घ्यदानप्रसङ्गेन अगस्त्यार्घ्यदानं लिख्यते । अगस्त्यार्घ्यदानन्तु सौरेण सिंहराशौ विधानात् । यथा, ब्रह्मवैवर्त्ते । “अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः । अर्घ्यं दद्युरगस्त्याय गौडदेशनिवासिनः ॥” नारसिंहे । “शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम् । मन्त्रेणानेन वै दद्याद्दक्षिणाशामुखस्थितः ॥ काशपुष्पप्रतीकाश अग्निमारुतसम्भव । मित्रावरुणयोः पुत्त्र कुम्भयोने नमोऽस्तु ते ॥” प्रार्थनन्तु । “आतापिर्भक्षितो येन वातापिश्च महासुरः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥” गन्धादिकन्तु अगस्त्याय नम इत्यनेन देयं विशे षानुद्देशो सामान्यतः प्राप्तत्वात् । दक्षिणाशामुखस्थित इति गन्धादावपि प्रयो- गाङ्गकर्त्तृधर्म्मत्वादिति रत्नाकरः ॥ * ॥
तत्पत्न्यर्घ्यदानमन्त्रस्तु । “लोपामुद्रे महाभागे राजपुत्त्रि पतिव्रते । गृहाणार्घ्यं मया दत्तं मैत्रावरुणिवल्लभे ॥” इति मलमासतत्त्वम् ॥ (अस्या जन्मादिविवरणन्तु महाभारते वन- पर्व्वणि ९६ अध्यायमारभ्य द्रष्टव्यम् ॥)



Correction: