संस्कृत-शब्दकोशः

लोप्त्री लोभिन्

लोभ

वाचस्पत्यम्

लोभ ||‍ पु० लुभ—आकाङ्क्षायां भावे घञ् । परद्रव्येषु आतश- यिताभिलाषे “परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो द्विजश्रेष्ठ! स लोभः परिकीर्त्तिनः” पद्मपु० ।


शब्दकल्पद्रुमः

लोभः || पुं, (लुभ् + घञ् ।)
आकाङ्क्षा । पर- द्रव्याभिलाषः । तत्पर्य्यायः । तृष्णा २ लिप्सा ३ वशः ४ स्पृहा ५ काङ्क्षा ६ शंसा ७ गर्द्धः ८ वाञ्छा ९ इच्छा १० तृट् ११ मनोरथः १२ कामः १३ अभिलाषः १४ । इति हेमचन्द्रः ॥ * ॥
तस्य लक्षणं यथा, —
“परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्त्तितः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥
स च ब्रह्मणोऽधराज्जातः । यथा, —
“भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः ।” इति मात्स्ये सुखोत्पत्तिर्नाम ३ अध्यायः ॥ * ॥
स तु नाशकारणं यथा, —
“लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः । तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥ अपि च । “त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥” इति श्रीभगवद्गीतायाम् १६ अध्यायः ॥ (लोभनिन्दाविषयकश्लोकानि यथा, —
“लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥ लोभात् क्रोधः प्रभवति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कार- णम् ॥ लोभात् क्रोधः प्रभवति क्रोधाद्द्रोहः प्रवत्तते । द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः ॥ मातरं पितरं पुत्त्रं भ्रातरं वा सुहृत्तमम् । लोभाविष्टो नरो हन्ति स्वामिनं वा सहो- दरम् ॥ लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ लोभाविष्टो नरो वित्तं वीक्षते न स चापदम् । दुग्धं पश्यति भार्ज्जारो यथा न लगुडा- हतिम् ॥ प्रायेण धनिनामेव धनलोभो निरन्तम् । पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ नात्यर्थमर्थार्थितया लुब्धमुद्वेजयेज्जनम् । अब्धिर्दत्त्वाश्वरत्नं स्त्रीर्मथ्यमानोऽसृजद्विषम् ॥ लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्व्वतो भयं दृष्टम् । कार्य्याकार्य्यविचारो लोभविमूढस्य नास्त्येव ॥ सत्यप्रशमतपोभिः शस्त्रधनैः शास्त्रवेदि- भिर्विजितः । लोभो वत प्रविष्टः कुटिलं हृदयं किराती- नाम् ॥ स्नेहोपपन्न इति पूर्णदशाविशेष- शाली स्वमात्मनि वसुप्रकरं निधाय । लब्धोदये तमथ गृह्णति पद्मबन्धौ दीपा भवन्ति कलुषा बलवान् हि लोभः ॥ यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनक्लेशं कृषिं कुर्व्वते । सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फू- र्ज्जितम् ॥” * ॥
)



Correction: