संस्कृत-शब्दकोशः

लोमशा लोमहर्षण

लोमशातन

वाचस्पत्यम्

लोमशातन ||‍ न० लोमानि शातयति शद—णिच् तान्ता- देशः ल्यु । लोमपातने औषधभेदे गरु० पु० १८५ अ० तदौषधमुक्तं यथा “हरितालशङ्खचूर्णं कदलीदलभ- स्मना । एतद्द्रव्येण चोद्वर्त्त्य लोमशातनमुत्तमम् । ल वणं हरितालञ्च तण्डुल्याश्च फलानि च । लाक्ष र स- कमायुक्तं लोमशातनमुत्तमम् । सुधा च हरितालञ्च शङ्खञ्चैव मनःशिला । सैन्धवेन सहैकत्र छागमूत्रेण पेष- येत् । तत्क्षणोद्वर्त्तनादेव लोमशातनमुत्तमम्” ।


शब्दकल्पद्रुमः

लोमशातनं || क्ली (लोम्नां शातनम् ।)
लोम- पातनम् । तस्यौषधानि यथा, —
“हरितालं शङ्खचूर्णं कदलीदलभस्मना । एतद्द्रव्येण चोद्बर्त्त्य लोमशातनमुत्तमम् ॥ लवणं हरितालञ्च तण्डुल्याश्च फलानि च । लाक्षारससमायुक्तं लोमशातनमुत्तमम् ॥ सुधा च हरितालञ्च शङ्खञ्चैव मनःशिला । सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् । तत्क्षणोद्बर्त्तनादेव लोमशातनमुत्तमम् ॥” इति गारुडे १८५ अध्यायः ॥ (तथाच । “भल्लातकं बिडङ्गञ्च यवक्षारञ्च सैन्धवम् । मनःशिला शङ्खचूर्णं तैलपक्वं तथैव च । लोमानि शातयत्येव नात्र कार्य्या विचारणा ॥” इति वैद्यके भैषज्यधन्वन्तरौ वशीकरणाद्यधि- कारे ॥ * ॥
)



Correction: