संस्कृत-शब्दकोशः

लोमशातन लोमहृत्

लोमहर्षण

वाचस्पत्यम्

लोमहर्षण ||‍ न० लोम्नां हर्षणं हर्षजनकव्यापार इव उद्भेद इति यावत् । १ रोमाञ्चे । लोमानि हर्षयति उत्तमश्लोक- कथया हृष—णिच्—ल्यु । व्यासशिष्ये सूतवंश्ये स्वनाम- ख्याते २ पौराणिके पु० “प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोमहर्षणः । पुरणसंहितां तस्मै ददौ व्यासो महामुनिः” विष्णुपु० ।


शब्दकल्पद्रुमः

लोमहर्षणं || क्ली (लोम्नां हर्षणमिव ।)
रोमाञ्चः । इत्यमरः ॥ (लोम्नां हर्षणमस्नादिति । रोमाञ्च- कारके, त्रि । यथा, महाभारते । ६ । ६७ । १३ । “तस्मिन् महाभये घोरे तुमुले लोमहर्षणे । ववर्षुः शरजालानि क्षत्रिया युद्धदुर्म्मदाः ॥”)


शब्दकल्पद्रुमः

लोमहर्षणः || पुं, (विचित्रपुराणकथाश्रवणात् लोम्नां हर्षणं उद्गमो यस्मात् ।)
सूतः । यथा, “पुराणसंहितां चक्रे पुराणार्थविशारदः । प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोभहर्षणः ॥ पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ॥” इति विष्णुपुराणे ३ अंशे ७ अध्यायः ॥ * ॥
स च बलरामेण हतः । यथा, —
“तथा क्षेत्रे सूतपुत्त्रो निहतो लोमहर्षणः । बलरामास्त्रयुक्तात्मा नैमिषेऽभूत् स्ववाञ्छया ॥” इति कल्किपुराणे २७ अध्यायः ॥



Correction: