संस्कृत-शब्दकोशः

लोमालिका लोला

लोल

वाचस्पत्यम्

लोल ||‍ त्रि० लोड—अन् डस्य लः । १ सवृष्णे २ चञ्चले च अमरः च ३ जिह्वायां ४ लक्ष्म्याञ्च स्त्री मेदि० ।


शब्दकल्पद्रुमः

लोलः || त्रि (लोडतीति । लुड विलोडने + अच् ।)
चञ्चलः । (यथा, साहित्यदर्पणे ३ परिच्छेदे । १४१ । “पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरविम्बमभीष्टे । पर्य्यकूजि सरुजेव तरुण्या- स्तारलोलवलयेन करेण ॥”)
साकाङ्क्षः । इत्यमरः ॥ (यथा, रघुः । ७ । २३ । “ह्रीयन्त्रणामानशिरे मनोज्ञा- मन्योन्यलोलानि विलोचलानि ॥” पुं, तामसमनुः । इति मार्कण्डेयपुराणम् । ७४ । ४१ ॥)



Correction: