संस्कृत-शब्दकोशः

लोल लोलार्क

लोला

शब्दकल्पद्रुमः

लोला || स्त्री (लोल + टाप् ।)
जिह्वा । लक्ष्मीः । इति मेदिनी । ले, ४७ ॥ चञ्चला स्त्री च । (यथा, आर्य्यासप्तशत्याम् । ६०८ । “सर्व्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥” चतुर्द्दशाक्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)



Correction: