वाचस्पत्यम्
लोहित || न० रुह इतच् रस्य लः । १ कुङ्कुमे २ रक्तचन्दन ३ रक्तगोशीर्षकभेदे मेदि० । ४ पत्तङ्गे ५ हरिचन्दने शब्दच० । ६ तृणकुङ्कुमे ७ रुधिरे च राजनि० ८ युद्धे हेमच० । ९ नदभेदे १० मर्दने ११ रक्तवर्णे च पु० मेदि० । १२ रक्ततायुत त्रि० । १३ मृगभेदे १४ रोहितमत्स्ये १५ सर्पे १६ देवभेदे भरतः । १७ मसूरे शब्दच० १८ रक्तालौ १९ रक्तशालौ राजनि० । २० वनभेदे २१ सरोवरभेदे ब्रह्मपुत्रशब्दे दृश्यम् । सर्वत्र जातौ स्त्रियां ङीष् । वर्णे तु स्त्रीत्वे ङीप् तस्य नः । लोहिनी लाहितवर्णयुतस्त्रियाम् । रुह—इनन् रस्य लः । रोहणकर्त्तरि स्त्रियां टाप् ।
शब्दकल्पद्रुमः
लोहितं || क्ली (रुह्यते इति । रुह + “रुहे- रश्च लो वा ।” उणा० ३ । ९४ । इति इतन् रस्य लत्वञ्च ।)
रक्तगोशीर्षम् । कुङ्कु- मम् । रक्तचन्दनम् । इति मेदिनी । ते, १४७ ॥ पत्तङ्गम् । हरिचन्दनम् । तृणकुङ्कुमम् । रुधि- रम् । इति राजनिर्घण्टः ॥ (यथा, मनुः ॥ ४ । ५६ । “नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तमन्यद्बा लोहितं वा विषाणि षा ॥”)
युद्धम् । इति हेमचन्द्रः ॥ (सरोवरविशेषः । इति मात्स्ये । १२० । १२ ॥ माणिक्यम् । तत्- पर्य्यायो यथा, —
“माणिक्यं पद्मरागः स्याच्छोणरत्नञ्च लोहि- तम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शब्दकल्पद्रुमः
लोहितः || त्रि रक्तवर्णयुक्तः । इत्यमरः ॥ (यथा, मनुः । ५ । ६ । “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्जयेत् ॥”)
शब्दकल्पद्रुमः
लोहितः || पुं, (रुह + इतन् । रस्य लः ।)
नद- विशेषः । (सागरविशेषश्च । यथा, रामायणे । ४ । ४० । ३९ । “ततो रक्तजलं भीमं लोहितं नाम सागरम् । गत्वा प्रेक्षत ताञ्चैव बृहतीं कूटशाल्म- लीम् ॥”)
भौमः । (यथा, बृहत्संहितायाम् । ६ । ८ । “मध्येन यदि मघानां गतागतं लोहितः करोति ततः । पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयम- वृष्टिः ॥”)
रक्तवर्णः । इति मेदिनी । ते, १४८ ॥ रोहित- मत्स्यः । मृगविशेषः । इति शब्दरत्नावली ॥ सर्पः । (यथा, महाभारते । २ । ९ । ८ । “वासुकिस्तक्षकश्चैव नागश्चैरावणस्तथा । कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥”)
सुरान्तरः । इति धरणिः ॥ मसूरः । इति शब्दचन्द्रिका ॥ रक्तालुः । रक्तशालिः । इति राजनिर्घण्टः ॥ (यथा, सुशुते । १ । ४६ । “षष्टिका यवगोधूमा लोहिता ये च शालयः । मुद्गाढकी मसूराश्च धान्येषु प्रवराः स्मृताः ॥”)
बलभेदः । इति हेमचन्द्रः ॥ (पर्व्वतविशेषः । इति मात्स्ये । १२० । ११ ॥ कुशद्वीपस्थवर्ष- विशेषः । इति तत्रैव । १२१ । ६५ ॥)