संस्कृत-शब्दकोशः

लोहित लोहितचन्दन

लोहितक

वाचस्पत्यम्

लोहितक ||‍ न० लोहितमिव कायति कै—क । १ पित्तले राजनि० । लोहित + इवार्थे कन् । २ पद्मरागमणौ पु० हेमच० । ३ मङ्गलग्रहे पु० शब्दमाला ।


शब्दकल्पद्रुमः

लोहितकं || क्ली (लोहितमिव । इवार्थे कन् ।)
रीतिः । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

लोहितकः || पुं, (लोहित एव । स्वार्थे कन् ।)
मङ्गलग्रहः । इति शब्दमाला ॥ पद्मरागमणिः । इति हेमचन्द्रः ॥ (यथा, माघे । १३ । ५२ । “लयनेषु लोहितकनिर्म्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ॥” रक्तवर्णयुक्ते, त्रि । यथा, महाभारते । २ । ९ । ३ । “नीलपीतासितश्यामैः सितैर्लौहितकैरपि । अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः ॥”)



Correction: