संस्कृत-शब्दकोशः

लोहिता लोहिताङ्ग

लोहिताक्ष

वाचस्पत्यम्

लोहिताक्ष ||‍ पु० लोहिते अक्षिणी यस्य षच् समा० । १ विष्णौ शब्दच० २ कोकिले च पुंस्त्री० शब्दच० । ३ रक्तनेत्रयुते त्रि० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

लोहिताक्षः || पुं, (लोहिते अक्षिणी यस्य । सक्- थ्यक्ष्णोः स्वाङ्गात् षच् ।)
विष्णुः । इति शब्द- माला ॥ कोकिलः । इति शब्दचन्द्रिका ॥ रक्त- वर्णचक्षुर्युक्ते, त्रि । (यथा, महाभारते । १ । ५६ । ६ । “यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान् पुरस्तात् ॥”)



Correction: