संस्कृत-शब्दकोशः

लोहिताक्ष लोहितानन

लोहिताङ्ग

वाचस्पत्यम्

लोहिताङ्ग ||‍ पु० लोहितमङ्गमस्य । १ मङ्गलग्रहे अमरः २ काम्पिल्लवृक्षे च राजनि० ।


शब्दकल्पद्रुमः

लोहिताङ्गः || पुं, (लोहितमङ्गं यस्य ।)
मङ्गल- ग्रहः । इत्यमरः ॥ (यथा, हरिवंशे । २२८ । १२ । “वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती । शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः ॥”)
कम्पिल्लकः । इति राजनिर्घण्टः ॥



Correction: