वाचस्पत्यम्
लोहिताङ्ग || पु० लोहितमङ्गमस्य । १ मङ्गलग्रहे अमरः २ काम्पिल्लवृक्षे च राजनि० ।
शब्दकल्पद्रुमः
लोहिताङ्गः || पुं, (लोहितमङ्गं यस्य ।)
मङ्गल- ग्रहः । इत्यमरः ॥ (यथा, हरिवंशे । २२८ । १२ । “वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती । शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः ॥”)
कम्पिल्लकः । इति राजनिर्घण्टः ॥