वाचस्पत्यम्
लौकायतिक || न० लोकायतं चार्वाकशास्त्रं वेत्त्यधीते वा ठक् । चार्वाकमताभिज्ञे ।
शब्दकल्पद्रुमः
लौकायतिकः || पुं, (लोकायतमधीते वेद वा । लोकायत + “क्रतूक्थादि सूत्रान्तात् ठक् ।” ४ । २ । ६० । इति ठक् ।)
तार्ककभेदः । (यथा, गो० रामायणे । २ । १०९ । २९ । “कच्चिन्नु लौकायतिकान् ब्राह्मणानुपसेवसे । अनर्थकुशला ह्येते मूढाः पण्डितमानिनः ॥”)
चार्व्वाकशास्त्रवेत्ता । लोकायतं वेत्ति इत्यर्थे ष्णिकप्रत्ययेन निष्पन्नोऽथम् ॥