वाचस्पत्यम्
लौकिक || त्रि० लोके विदितः प्रसिद्धो हितो वा ठण् । १ लोकविदिते २ लोकप्रसिद्धे । २ लोकहिते च ।
शब्दकल्पद्रुमः
लौकिकः || त्रि (लोके विदितः प्रसिद्धो हितो लोकं वेत्ति वा । लोक + ठञ् ।)
लोकव्यवहारसिद्धः । यथा, —
“वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते । निर्णीतार्थास्तु विज्ञेया लोकात्तेषामसंग्रहः ॥” इति कलापव्याकरणे सन्धिवृत्तौ प्रथमप्रकरणम् ॥ लोकाय हित इत्यर्थे च ष्णिकप्रत्ययनिष्पन्नः । इति मुग्धबोधव्याकरणम् ॥