संस्कृत-शब्दकोशः

वक्त्रासव वक्रकण्ट

वक्र

वाचस्पत्यम्

वक्र ||‍ न० वकि—रन् पृषो० नलोपः । १ नदीवङ्के अमरः २ शनैश्चरे पु० मेदि० ३ मङ्गलग्रहे पु० हेम० ४ रुद्रे ५ त्रि- पुरासुरे पु० धरणिः ६ पर्वटे कुटिलगतौ च स्त्री । ८ तद्वति त्रि० । ग्रहाणां वक्रगतिकारणं खगगतिशब्दे उक्तम् । सामान्यतः ज्यो० त० उक्तं यथा “वक्राः स्युः पञ्च षष्ठेऽर्के अतिवक्रा नगाष्टगे । नवमे दशमे चैव जायते सहजा गतिः । द्वादशैकादशे सूर्य्ये भजन्ते शीघ्रतां पुनः । रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते । न तु राश्यन्तरस्पर्शात् पञ्चमादिनिरूपणम् । राहुकेतू सदा वक्रौ” ।


शब्दकल्पद्रुमः

वक्रं || क्ली (वङ्कते इति । षकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्बा, वञ्चतीति । वञ्चु गतौ + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।)
नदीवङ्कः । तत्पर्य्यायः । पुटभेदः २ । इत्य- मरः ॥ वङ्कः ३ । इति भरतः ॥ (तगर- पादिकम् । तत्पर्य्यायो यथा, —
“कालानुशारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥ तथास्य विषयः । “शताह्वै रण्डमूलोग्रा वक्रव्याघ्रीफलैः शृतम् । तैलं नस्य मरुत्श्लेष्मतिमिरोर्द्ध्वगदापहम् ॥” इति शताह्वाद्यं तैलम् । इति चक्रपाणिसंग्रहे शिरोरोगाधिकारे ॥)


शब्दकल्पद्रुमः

वक्रः || त्रि (वङ्कते इति । वकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्वा, वञ्चि + रक् ।)
अनृजुः । वाँका इति भाषा । तत्पर्य्यायः । अरालम् २ वृजिनम् ३ जिह्मम् ४ ऊर्म्मि- मत् ५ कुञ्चितम् ६ नतम् ७ आविद्धम् ८ कुटि- लम् ९ भुग्नम् १० वेल्लितम् ११ । इत्यमरः । ३ । १ । ७१ ॥ वङ्कुरम् १२ वेङ्कु १३ विनतम् १४ उन्दु- रम् १५ । इति शब्दरत्नावली ॥ अवनतः १६ आनतः १७ भङ्गुरः १८ । इति जटाधरः ॥ * ॥
(यथा, महाभारते । ३ । १३२ । १२ । “स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो वै महर्षिः ॥”)
वक्राणि यथा । अलकः १ भालः २ भ्रूः ३ नखचिह्रम् ४ अङ्कुशः ५ कुञ्चिका ६ भग्नकङ्क- णम् ७ बालेन्दुः ८ दात्रम् ९ कुद्दालः १० चन्द्रकः ११ शुकास्यम् १२ पलाशपुष्पम् १३ विद्युत् १४ कटाक्षः १५ शक्रधनुः १६ फणा १७ प्रबोधः १८ करः १९ हस्तिदन्तः २० शूकर- दन्तः २१ सिंहनखादिः २२ । इति कविकल्प- लता ॥ क्रूरः । इति मेदिनी । रे, ६५ ॥


शब्दकल्पद्रुमः

वक्रः || पुं, (वञ्चतीति । वञ्च गतौ + “स्फायितञ्चि- वञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।)
शनैश्चरः । इति मेदिनी । रे, ६५ ॥ मङ्गलग्रहः । इति हेम- चन्द्रः । २ । ३० ॥ रुद्रः । त्रिपुरासुरः । इति धरणिः ॥ पर्पटः । इति राजनिर्घण्टः ॥ वक्र- गतिविशिष्टग्रहः । स तु यस्य ग्रहस्याश्रि- तात् रव्यधिष्ठितराशीयत्रिंशांशान्तर्गतादंशात् पञ्चमषष्ठांशे रविस्तिष्ठति । यथा, —
“वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे । नवसे दशमे भानौ जायते सहजा गतिः ॥ द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः । रविस्थित्यंशकस्त्रिंशावधेः संख्यात्र कल्प्यते ॥ न तु राश्यन्तरस्पर्शात् द्वितीयादिनिरूपणम् । राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ ॥” इति ज्योतिस्तत्त्वम् ॥ (करूषदेशीयनृपतिभेदः । यथा, महाभारते । २ । १४ । ११ । “तमेव च महाराज ! शिष्यवत् समुपस्थितः । वक्रः करूषाधिपतिर्म्मायायोधी महाबलः ॥”)



Correction: