संस्कृत-शब्दकोशः

वक्षःस्थल वक्षोरुह

वक्षोज

वाचस्पत्यम्

वक्षोज ||‍ पु० वक्षसि जायते जन—ड । १ स्तने “वक्षोजयोर्मन्दता” सा० द० ।


शब्दकल्पद्रुमः

वक्षोजं || क्ली (वक्षसि जायते इति । जन् + डः ।)
स्तनः । इति शब्दरत्नावली ॥ (यथा, साहित्य- दर्पणे ३ परिच्छेदे । “मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दतां दूरं यात्युदरञ्च लोमलतिका नेत्रार्जवं धावति । कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणात् अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥”)



Correction: