वाचस्पत्यम्
वक्षोरुह || पु० वक्षसि रोहति रुह—क । स्तने त्रिका० ।
शब्दकल्पद्रुमः
वक्षोरुहः || पुं, (वक्षसि रोहतीति । रुह + कः ।)
स्तनः । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्या- सप्तशत्याम् । ४४६ । “मा शबरतरुणि पीवरवक्षोरुहयोर्भरेण भज गर्व्वम् । निर्म्मोकैरपि शोभा ययोर्भुजङ्गीभिरुन्मुक्तैः ॥”)