वाचस्पत्यम्
वङ्क्षण || पु० वक्ष—ल्युट् पृषो० गुम् । ऊरुसन्धो (कुच्की) अमरः
शब्दकल्पद्रुमः
वङ्क्षणः || पुं, (वक्षति संहतो भवतीति । वक्ष + ल्युः । पृषोदरादित्वात् नुम् ।)
ऊरुसन्धिः । इत्यमरः । २ । ६ । ७३ ॥ कुँच्की इति भाषा ॥ (यथा, सुश्रुते शारीरस्थाने ५ अध्याये । “चतुर्द्दशास्थ्नां संघाताः । तेषां त्रयोगुल्फ- जानुवङ्क्षणेषु ॥”)