संस्कृत-शब्दकोशः

वङ्क्षण वङ्ग

वङ्क्षु

शब्दकल्पद्रुमः

वङ्क्षुः || स्त्री (वहतीति । वह + बाहुलकात् कुन् । नुम् च ।)
गङ्गास्रोतोविशेषः । यथा, —
“तस्याः स्रोतसि सीता च बङ्क्षर्भद्रा च कीर्त्तिता ॥” सा च केतुमालवर्षस्था गङ्गा । यथा । एवं माल्यवच्छिखरान्निष्पतन्ती तत उपरतवेगा केतुमालमभिवङ्क्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति । इति श्रीभागवते ५ स्कन्धे १७ अध्यायः ॥ (यथा त्त महाभारते । १३ । १६५ । २२ । “गोदावरी च वेण्वा च कृष्णवेणा तथा द्विजा । दृषद्वती च कारेवी वङ्क्षुर्मन्दाकिनी तथा ॥”)



Correction: