संस्कृत-शब्दकोशः

वङ्गारि वङ्गाली

वङ्गाल

शब्दकल्पद्रुमः

वङ्गालः || पुं, भैरवरागस्य पुत्त्रः । यथा, —
“वङ्गालः पञ्चमः षष्ठो मधुरो हर्षकस्तथा । देशाख्यो माधवः सिन्धुर्भैरवपुत्त्राः प्रकी- र्त्तिताः ॥” अस्य ध्यानम् । “कक्षानिवेशितकरण्डवरस्तपस्वी भास्वत्त्रिशूलपरिमण्डितवामहस्तः । भस्मोज्ज्वलो निविडबद्धजटाकलापो वङ्गाल इत्यभिहितस्तरुणार्कवर्णः ॥ षाडवो देववङ्गालो गृहांशन्यासमध्यमः । प्रहर्षे विनियोक्तव्यः प्रोक्तोऽयं मुनिना स्वयम् ॥” इति सङ्गीतरत्नाकरः ॥



Correction: